SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [१४९ एयमद्वं निसामित्ता, हेऊकारणचोइओ । तओ नमिरायरिसिं, देविंदो इणमब्बवी ॥५०॥ अथ पुनर्नर्मि मुनि प्रति देवेन्द्र इदमाहं ॥५०॥ अच्छेरयमब्भूदए, भोए चयसि पत्थिवा । असंते कामे पत्थेसि, संकप्पेण विहन्नसि ॥५१॥ हे पार्थिवैतदाश्चर्यं वर्तते, यत्त्वमेवंविधोऽप्यद्भुतान् रमणीयान् भोगान् त्यजसि । भोगत्यागाच्चासतोऽविद्यमानादप्रत्यक्षान् कामान् विषयसुखानि स्वर्गापवर्गसौख्यानि प्रार्थयसे, एतदप्याश्चर्यम् । अथवा तवात्र को दोषः ? अतिलोभस्य विजृम्भितमेतदलब्धप्रधान-प्रधानतरभोगसुखाभिलाषरूपेण विकल्पेन विहन्यसे विबाध्यसे । अदृष्टस्वर्गापवर्गसुखलोभेन प्रत्यक्षाणि भोगसुखानि त्यक्त्वा पश्चात्तापेन त्वं पीड्यसे इत्यर्थः । यः सद्विवेको भवेत्स लब्धं वस्तु त्यक्त्वाऽलब्धवस्तुनि साभिलाषो न स्यात् ॥५१॥ एयमद्वं निसामित्ता, हेऊकारणचोडओ। तओ नमी रायरिसी, देविंदमिणमब्बवी ॥५२॥ ततः पुनर्नमिराजर्षिर्देवेन्द्रं प्रतीदमब्रवीत् ॥५२॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥५३ ॥ एते कामा-विषया विविधबाधाविधायित्वाच्छल्यं शल्यसदृशा देहमध्यप्रविष्टत्रुटितभल्लितुल्याः, प्रतिक्षणं पीडोत्पादकाः ।पुनः कामा विषं विषसदृशाः, यथा विषं तालपुटादि भक्षितं सन्मरणोत्पादकम्, तथा कामा अपि धर्मजीवितविनाशका मुखे मधुरत्वमुत्पाद्य पश्चान्मरणमुत्पादयन्ति दारुणत्वात् । पुनः कामा आशीविषोपमाः, आशी-दाढाविषं येषां ते आशीविषाः सस्तेषामुपमा येषां ते आशीविषोपमाः सर्पसदृशाः यथा सर्पदष्टा जीवा नियन्ते तथैव कामैर्दष्टा जीवा नियन्ते । यथा हि फणिमणिभूषिताः सर्पाः शोभना दृश्यन्ते, स्पृष्टाश्च विनाशाय स्युः, एतादृशान् कामान् प्रार्थयन्तो जना दुर्गति यान्ति। कीदृशा जनाः? अकामाः कामसुखाभिलाषं वाञ्छन्तोऽप्यलभमाना अप्राप्तमनोरथाः कामिनो नरकादौ व्रजन्ति । तस्मादेते प्रत्यक्षं सुखोत्पादका अपि कामाः कष्टदायकत्वात्संयमधर्मश्च सकलकष्टहरत्वाद्विवेकिभिः कामास्त्याज्याः, संयमो ग्राह्य इति हार्दम् ॥५३ ॥अथ कथं दुर्गति यान्तीत्याह - अहे वयइ कोहेणं, माणेणं अहमागई । मायागइपडिग्घाओ, लोभाओ दुहओ भयं ॥५४॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy