________________
१४८]
[उत्तराध्ययनसूत्रे एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ ततः पुनर्नमिराजर्षि प्रति देवेन्द्र इदमब्रवीत् ॥ ४५ ॥
हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं ।
कोसं वड्डावइत्ताणं, तओ गच्छसि खत्तिया ॥ ४६ ॥ अथ द्रव्यलोभत्यागं परीक्षितुमाह-हे क्षत्रिय ! हिरण्यं-घटितस्वर्णम्, सुवर्णमघटितम्, मणयश्चन्द्रकान्ताद्य इन्द्रनीलाद्य वा, मुक्तं-मुक्ताफलम्, कांस्य-कांस्यभाजनादि, दुष्यंवस्त्रादि, वाहनं-रथाश्वादि, कोशं - भाण्डागारम्, एतद् वृद्धि प्रापय्य-वर्धयित्वा ततस्त्वं दीक्षायै गच्छ । अत्रायमाशयः-योऽपरिपूर्णेच्छो भवति स धर्मानुष्ठानयोग्यो न भवति । यथा मम्मणः, अपरिपूर्णेच्छो हि भवान् साकांक्षो भवति ॥ ४६ ॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसी, देविंदमिणमब्बवी ॥ ४७ ॥ तत एतद्वचनं श्रुत्वा नमिराजर्षिरिन्दं प्रतीदं वचनमब्रवीत् ॥ ४७ ॥ सुवण्णरूपस्स उ पव्वया भवे, सिया हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अणंतिया ॥४८॥
पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह।
पडिपुनं नालमेगस्स, इइ विज्जा तवं चरे॥४९॥ सुवर्णस्य तु पुना रूप्यस्य चासङ्ख्यका बहवः कैलाशसमा अत्युच्चाः स्युः, कदाचित् 'हु' यस्मात्कारणात्पर्वता भवेयुस्तदापि लुब्धस्य - लोभग्रस्तनरस्य तैः कैलाशपर्वतप्रमाणैः स्वर्णरूप्यपुजैर्न किञ्चिदित्यर्थः ।लोभवतः पुरुषस्य कदापीच्छापूर्तिन स्यात् । 'हु' इति निश्चयेनेच्छाकाशसमाऽनन्तिकाऽपारा ॥४८॥ पुनरिच्छाया एव प्राबल्यमाह
पृथिवी समुद्रान्ता, शालयः कलमषाष्टिक्यलोहितदेवभोज्यदेयस्तन्दुलाः, यवधान्यानि, च शब्दादन्यान्यपि गोधूममुद्गादीनि, हिरण्यं सुवर्णं घटितदीनारादिद्रव्यं हिरण्यग्रहणेन अन्याऽपि ताम्र कस्तीरादिधातवः, पशुभिर्गवाश्वगजखरौष्ट्रादिभिः सह प्रतिपूर्ण समस्तम्, एवमेकस्य पुरुषस्येच्छापूर्तये नालं-न समर्थं भवति ।
'इइ' इत्येतद्विदित्वा साधुस्तपश्चरेत्साधुस्तपः कुर्यात्, इच्छानिरोध एव तपस्तद्विदध्यात् । तपसैवेच्छापूर्तिः स्यात् , तथा च सति साकाङ्क्षत्वमसिद्धम्, सन्तुष्टतया मम चाकाङ्क्षणीयवस्तुन एवाभावात् ॥ ४९ ॥ १ भाण्डागारादि-मु.॥२ भविष्यति-मु.॥३ साठी चोखा ॥४ कलई॥