________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[१४७ शक्यस्तं परित्यज्यान्यमपरं हीनबलानां कातराणां सुखेनोदरभरणकरणसमर्थं भिक्षूणामाश्रमं वाञ्छसि । यत उक्तं
"गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥१॥ सुदुर्वहं परिज्ञाय, घोरं गार्हस्थ्यमाश्रमम् । मुण्डनग्नजटावेषाः, कल्पिताः कुक्षिपूर्तये ॥ २ ॥ सर्वतः सुन्दरा भिक्षा, रसा यत्र पृथक् पृथक् ।।
स्यादैकयामिकी सेवा, नृपत्वं साप्तयामिकम्" ॥ ३ ॥ तस्मादिदं कातराणामाचरितं भवादृशानां शूराणां न योग्यमिति हार्दम् । इहैवात्रैव गृहस्थाश्रमे पौषधे रतश्चतुर्दशीपूर्णिमोद्दिष्टामावास्याष्टम्यादितिथिषूपवासादिरतो भव, अणुव्रतोपलक्षणं चैतत् । अस्योपादानं पर्वदिनेष्ववश्यं तपोऽनुष्ठानख्यापकं यद्यद् घोरं दुष्करं तत्तद्धर्माथिना नरेणानुष्ठेयम् । यथानशनादीत्यन्तर्गतहेतुकारणे स्वयमेव ज्ञेये ॥४२॥
एयमढे निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसी, देविंदमिणमब्बवी ॥ ४३ ॥ अथ नमिराजर्षिर्देवेन्द्रं प्रति गृहस्थाश्रमाद्भिक्षुकाश्रमेऽधिकलाभं दर्शयति, धर्मव्यापारपरो ह्यधिकलाभदृष्टिर्भवेत् ॥ ४३ ॥
मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए ।
न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ यः कश्चिद्वालो निर्विवेकी नरो मासे मासे कुशाग्रेणैव भुङ्क्ते, न तु कराङ्गुल्यादिना भुक्ते, यद्वा यः कश्चिद्यावद्भोजनादिकुशस्य-दर्भस्याग्रेऽधितिष्ठति तावदेव भुक्ते अधिकं न भुङ्क्ते, अल्पाहारी स्यादित्यर्थः ।अथवा यो बालोऽज्ञानी मासे मासे कुशाग्रेणैव भुङ्क्ते, कुशाग्रेणाहारवृत्तिं कुर्यात्, अन्नं न किमपि भुक्त इत्यर्थः । एतादृक्कष्टानुष्ठानकारी, सोऽपि स्वाख्यातधर्मस्य षोडशीमपि कलां नार्घति-न प्राप्नोति । सुष्ठ निरवद्यमाख्यातः स्वाख्यातस्तस्य स्वाख्यातस्य जिनोक्तस्य संयमधर्मस्य चारित्रस्य यः षोडशो भागस्तत्तुल्योऽप्यज्ञानीलाभालाभस्याज्ञः, कुशाग्रभोजी न स्यादित्यर्थः । तस्माद् गृहे तिष्ठतस्तपः कुर्वतो बालस्य यथाख्यातचारित्रपालकस्य साधोर्महदन्तरम्, गृही अतीवधर्मात्मा भवति, तथापि सर्वसावद्यत्यागी न भवति, देशविरत एव स्यात्, तस्मात्सर्वनिरवद्यत्वाज्जिनोक्तत्वान्मोक्षार्थिना निरवद्यधर्म एव आश्रयणीयः सावधस्तु नाश्रयणीयः, आत्मघातादिवत् ॥ ४४ ॥