________________
१४६]
[उत्तराध्ययनसूत्रे जइत्ता विउले जन्ने, भोइत्ता समणमाहणे । दच्चा भुच्चा य जिट्ठा य, तओ गच्छसि खत्तिया ॥ ३८ ॥ .
रागद्वेषयोस्त्यागं निश्चित्याथ जिनधर्मे स्थैर्य परीक्षितुमिन्द्रः प्राह-भो क्षत्रिय ! ततः पश्चात्त्वं गच्छ । किं कृत्वा ? विपुलान्-विस्तीर्णान् यज्ञान् याजयित्वा, विस्तीर्णान् यज्ञान् कारयित्वेत्यर्थः । श्रमणब्राह्मणान् भोजयित्वा पश्चाच्छ्रमणब्राह्मणादिभ्यो गवादीन् दत्वा, च पुनर्भुक्त्वा, शब्दरूपरसगन्धस्पर्शादिविषयान् भुक्त्वा राजर्षित्वेन स्वयमेव यागानिष्ट्वा -यज्ञानश्वमेधादीन् कृत्वा, यत्प्राणिनां प्रीतिकरं स्यात्, तद्धर्माय स्यात्, तथाऽहिंसादि, तथामूनि यजापनभोजनदानभोगयजनादीनि धर्माय स्युरित्यर्थः ॥ ३८ ॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसी, देविंदमिणमब्बवी ॥ ३९ ॥ ततः पुनर्नमिराजर्षिर्देवेन्द्रं प्रतीदमब्रवीत् ॥ ३९ ॥
जो सहस्सं सहस्साणं, मासे मासे गवं दए ।
तस्सावि संजमो सेओ, अदितस्सवि किंचणं ॥ ४० ॥ यो गवां सहस्राणां सहस्रमाद्दशलक्षं गवां मासे मासे दाने पात्रेभ्यो दद्यात्तस्यैवंविधस्य गवां दशशतसहस्रदायकस्यापि तस्माद्वां दानात्साधोः संयम - आश्रवादिभ्यो विरागः श्रेयानतिशयेन प्रशस्यः । अत्र साधोरिति पदमध्याहार्यम् । कीदृशस्य साधोः ? किञ्चित्स्वल्पं वस्त्वप्यददानस्यादातुरित्यर्थः ॥ ४० ॥
एयमलृ निसामित्ता, हेऊकारणचोइओ ।
तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥ एतत्पूर्वोक्तमर्थं श्रुत्वा नमि राजर्षि प्रति देवेन्द्रः पुनरब्रवीत् ॥ ४१ ॥ अथ चतुर्णामाश्रमाणां मध्ये प्रथमं गृहस्थाश्रममेव वर्णयति, प्रव्रज्यादाढ्यं च परीक्षयति
घोरासमं चइत्ताणं, अन्नं पत्थेसि आसमं ।
इहेव पोसहरओ, भवाहि मणुआहिवा ॥ ४२ ॥ भो मनुजाधिप ! घोराश्रम-गृहस्थाश्रमं त्यक्त्वान्यं भिक्षुकाश्रमं प्रार्थयसि, घोरोहीनसत्वैनरै'निर्वोढुमशक्यः, आश्रम्यते विश्रामो गृह्यते यस्मिन् स आश्रमः, आश्रमाश्चत्वारः-ब्रह्मचारि-गृहि-वानप्रस्थ-भिक्षुरूपाः, तत्र गृहिणामाश्रमो हि दुरनुचरः पालयितुम१ नरैर्वोढु -मु.॥