SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [ १४५ हे नराधिप ! ये केचित्पार्थिवा राजानस्तुभ्यं न नमन्ति तान् भूपालान् वश्ये स्थापयित्वा ततो हे क्षत्रिय ! त्वं गच्छ ॥ ३२ ॥ एयम निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदमिणमब्बवी ॥ ३३ ॥ ततो देवेन्द्रवचनानन्तरं नमिराजर्षिर्देवेन्द्रं प्रत्यब्रवीत् ॥ ३३ ॥ जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणेज्ज अप्पाणं, एस से परमो जओ ॥ ३४ ॥ यो मनुष्यः सङ्ग्रामे सुभटसहस्राणां सहस्रं जयेत्, कथम्भूते सङ्ग्रामे ? दुर्जये, अथवा कथम्भूतं सुभटसहस्त्राणां सहस्त्रं ? दुर्जयम्, दुःखेन जयो यस्य तद् दुर्जयम्, यः कश्चिदेक एतादृशः सुभटः स्यात्, यः सुभटानां दशलक्षं जयेत् । एकः पुनरेतादृशः पुरुषः स्याद्य आत्मानं - दुष्टाचारे प्रवृत्तं तेन सह युध्येत, आत्मना सह युद्धं कुर्यादित्यर्थः । एष आत्मविजयः 'से' इति तस्यात्मजयिनः परम उत्कृष्टो जयः प्रोक्तः । कोऽर्थः ? यो ह्यात्मविजयी पुमान् भवति तस्य पुरुषात् दशलक्षसुभटविजयिनः पुरुषान्महान् जयवादः, दशलक्षसुभटजेतुः सकाशादात्मविजयी पुमान् बलिष्ठ इत्यर्थः ॥ ३४ ॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पणा एव अप्पाणं, 'जइत्ता सुहमेहए ॥ ३५ ॥ ततश्चात्मना सहैव युध्यस्व, 'ते' तव बाह्येन युद्धेन - बाह्यसङ्ग्रामेण किं ? न किमपीत्यर्थः । बाह्यपार्थिवादिविजयो व्यर्थ एवेत्यर्थः । आत्मना एव आत्मानं जित्वा मुनिः सुखमेधते प्राप्नोतीत्यर्थः । अत्रात्माशब्देन मनः, सर्वत्र सूत्रत्वान्नपुंसकत्वम् अततिगच्छति प्राप्नोति नवीनानि नवीनान्यध्यवसायस्थानान्तराणीत्यात्मा मन उच्यते ॥ ३५ ॥ पंचेन्दियाणि कोहं, माणं मायं तहेव लोहं य । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥ ३६ ॥ भोः प्राज्ञ ! आत्मा- मन एव दुर्जयम्, तस्मिन्नात्मनि जिते सर्वमेतज्जितम् । एतत्किं किं तदाह-पञ्चेन्द्रियाणि च पुनः क्रोधो मानो माया, तथैव लोभश्चकारान्मिथ्यात्वाविरतिकषायादिकम् एतत्सर्वमरिचक्रमात्मनि जिते जितमिति ज्ञेयम् । यत्पूर्वं ये केचित्पार्थिवा अनम्रा इत्युक्तं तस्योत्तरं प्रोक्तम् ॥ ३६ ॥ एयम निसामित्ता, हेऊकारणचोइओ । तओ नर्म यरिसिं, देविंदो इणमब्बवी ॥ ३७ ॥ एतद्वचनं श्रुत्वेन्द्रः पुनर्नमिं राजर्षि प्रतीदमब्रवीत् ॥ ३७ ॥ १ जिणित्ता अन्यसंस्करणे ॥ ૧૯
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy