________________
१४४]
[उत्तराध्ययनसूत्रे एयमटुं निसामित्ता, हेऊकारणचोइओ।।
तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥२७॥ ततः पुनर्देवेन्द्रो नमिराजर्षेर्वचनं श्रुत्वा नमिराजर्षि प्रतीदं वचनमब्रवीत् ॥ २७ ॥
आमोसे लोमहारे य, गंठिभेये य तक्करे ।
नगरस्स खेमं काउणं, तओ गच्छसि खत्तिया ॥२८॥ हे क्षत्रिय ! त्वं ततस्तदनन्तरं गच्छेः, किं कृत्वा ? नगरस्य क्षेमं कृत्वा, तत्र नगरे आमोषा, लोमहाराः, च पुनर्ग्रन्थिभेदास्तस्कराः, खातपातका, लुण्टाका विद्यन्ते, तान् नगरानिष्कास्य सुखं कृत्वा पश्चात्त्वया दीक्षा गृहीतव्या । आमोषादयो ह्येते तस्कराणां भेदाः सन्ति । आ समन्तान्मुष्णन्ति चोरयन्तीत्यामोषास्तान्निवार्या । लोमहारास्ते उच्यन्ते येऽतिनिर्दयत्वेन परस्य पूर्वं प्राणान् हृत्वा पश्चाद् द्रव्यं गृह्णान्ति ते लोमहाराः । लोम्ना तन्तुना पट्टसूत्रमयपाशेन प्राणान् हरन्तीति लोमहाराः पाशवाहकास्तानिवार्य, पुनर्ग्रन्थि दव्यग्रन्थि घुर्घरककर्तिकाक्षुरकादिप्रयोगेण भिन्दन्ति विदारयन्तीति ग्रन्थिभेदास्तान् सर्वान् तस्करान्निराकार्य नगरं तस्कररहितं कृत्वा पश्चात्परिव्रजेरित्यर्थः ॥ २८ ॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसी, देविंदमिणमब्बवी ॥ २९ ॥ तत एतद्वचनं श्रुत्वा नमिराजर्षिरिन्द्रं प्रतीदं वचनमब्रवीत् ॥ २९॥
असई तु मणुस्सेहिं, मिच्छादंडो पजुंजए ।
अकारिणोत्थ बझंति, मुच्चई कारगो जणो ॥३०॥ असकृद्वारंवारंमनुष्यैमिथ्या वृथैवापराधरहितेषुनिरपराधजीवेष्वज्ञानादहङ्काराद्वादण्डः प्रयुज्यते।यतो पत्र संसारेऽकारिण आमोषादिक्रूरकर्मणामकर्तारो बध्यन्ते,कारकाचामोषादीनां क्रूरकर्मणां करिश्च जना मुच्यन्ते, अनेन तेषां तु ज्ञातुमशक्यत्वेन क्षेमकरणस्याप्यशक्यत्वं प्रोक्तम् । यदिन्द्रियाण्यामोषतुल्यानि ज्ञेयानि, तान्येव जेयानि ॥३०॥
एयमढे निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसिं, देविंदो इणमब्बवी ॥ ३१ ॥ 'ततः पुनः देवेन्द्रो नमिराजर्षि प्रतीदमब्रवीत् ॥३१॥
जे के पत्थिवा तुब्भं, नो नमंति नराहिवा ।
वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिया ॥ ३२ ॥ १ परिवजेदि-मु.॥२ एतन्नमिराजर्षेर्वचनं श्रुत्वा-मु.॥