________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[ १४३
मुनिर्विगतसङ्ग्रामः स्यात्, पराक्रमं क्रियायां बलस्फोरणम्, धनुः कृत्वा, च पुनस्तस्य धनुषः सदा ईर्यासमितिम्, जीवां प्रत्यञ्चां कृत्वा, च पुनस्तस्य पराक्रमधनुषो धृतिंधैर्यं धर्माभिरतिम्, केतनं श्रृङ्गमयं धनुर्मध्ये काष्ठं मुष्ठिस्थानं कृत्वा, तत्केतनं च स्नायुना दृढं बध्यते । इदमपि धैर्यकेतनं श्रृङ्गधनुर्मध्यस्थकाष्ठं सत्येन सत्यरूपस्नायुना 'पलिमंथए' इति परिबध्नीयात् । पुनस्तप एव नाराचो लोहमयो बाणस्तपोनाराचस्तेन युक्तं तपोनाराचयुक्तम्, तेन तपोनाराचयुक्तेन तेन पूर्वोक्तेन पराक्रमधनुषा कर्मकञ्चकं कर्मसन्नाहं भित्त्वा, अत्र कर्मकञ्चकग्रहणेन आत्मैवोद्धतः शत्रुः, स एव योधव्यः, तस्यैव कर्मकञ्चकं कर्मसन्नाहं भेद्यमित्यर्थः । कर्मणस्तु कञ्चकत्वं तद्गतमिथ्यात्वाविरतिकषायोदय भाज-आत्मनः श्रद्धानगरस्य रोधं कुर्वतो दुर्निवारत्वात्, कर्मकञ्चकभेदात्तस्यात्मनो जितत्वात्, जितकाशी जात एव, प्राकारं कारयित्वेत्यादि तस्य साधनता प्रोक्ता ॥ २०-२२-२२॥
एयम निसामित्ता, हेऊकारणचोइओ । तओ नमिरायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ एतन्नमिराजर्षेर्वचनं श्रुत्वा देवेन्द्रो नमिराजर्षि प्रतीदमब्रवीत् ॥ २३ ॥ पासाए कारइत्ताणं, वद्धमाणगिहाणि य । वालग्गपोइ आओ य, तओ गच्छसि खत्तिया ॥ २४ ॥
क्षत्रिय ! ततः पश्चात्त्वं गच्छ । किं कृत्वा ? प्रासादान् कारयित्वा भूपयोग्यमन्दिराणि कारयित्वा पुनर्वर्धमानगृहाणि अनेकधा वास्तुविद्यानिरूपितानि वर्धमानगृहाणि कारयित्वा, वालाग्रपोतिकाश्च कारयित्वा वलभीः कारयित्वा, गृहोपरि 'बङ्गलाराउटी प्रमुखाः कारयित्वेत्यर्थः । अथवा वालाग्रपोतिका - जलमध्यमन्दिराणि कारयित्वा, षडृतु - सुखदानि गृहाणि कारयित्वा पश्चाद्गन्तव्यमित्यर्थः ॥ २४ ॥
-
एयम निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरसी, देविंदमिणमब्बवी ॥ २५ ॥ ततो नमिराजर्षिरिन्द्रस्य बचनं श्रुत्वा देवेन्द्रं प्रत्यब्रवीत् ॥ २५ ॥
संसयं खलु सो कुणइ, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुव्विज्ज सासयं ॥ २६ ॥
भः प्राज्ञ ! स पुरुषः संशयमेव कुरुते, यः पुरुषो मार्गे गृहं कुरुते । यो ह्येवं जानाति मम कदाचिद्वाञ्छितपदे गमनं न भविष्यति, स एव मार्गे गृहं कुर्यात् । अत्र गृहकारणं तु मार्गप्रायमेव ज्ञेयम्, यस्य तु गमनस्य निश्चयो भवेत्स मार्गे गृहं न कुर्यादेव । अहं तु न संशयितः, मम संशयो नास्तीति हार्दम् । सम्यक्त्वादिगुणयुक्तानां मुक्तिनिवासयोयत्वेन यत्रैव गन्तुमिच्छेत्तत्रैव स्वाश्रयं स्वगृहम् अथवा 'सासयमि' ति शाश्वतमविनश्वरं गृहं कुर्यादित्यर्थः ॥ २६ ॥
१ मकाननी उपर अगासीमां रूम जेवुं बनाववुं के ज्यांथी चारे बाजु दूर सुधी जोई शकाय अथवा अगासी उपर धजा-पताका बांधवी ।