________________
१४२ ]
[ उत्तराध्ययनसूत्रे प्राकारं - कोट्टं कारयित्वा पुनस्तस्य प्राकारस्य गोपुराणि प्रतोलीद्वाराणि कारयित्वा प्रतोलीकथनादेवार्गलासहितमहादृढकपाटानि कारयित्वा पुनस्तस्य प्राकारस्याट्टालकानि च कारयित्वा, अट्टालकानि हिप्राकारकोष्टको परिवर्तीनि मन्दराण्युच्यन्ते । मुरजानामुपरिस्थगृहाणि सङ्ग्रामस्थानानि कारयित्वा, पुनस्तस्य प्राकारस्य ' उसूलगे 'ति खातिकां कारयित्वा, पुनस्तत्र प्राकारे शतघ्नीः कारयित्वा शतध्न्यों हि यन्त्रविशेषाः, या हि एकं वारं चालिताः सत्यः शतसङ्ख्याकान् भटान् विनाशयति । दूरमार-कुहकबाणाऽऽरावादिपाषाणयन्त्रादीन् कारयित्वा पश्चाद् व्रजेः । अत्र हे क्षत्रियेति सम्बोधन - मुक्तम्, तेन क्षत्रियो हिरक्षाकरणे समर्थः स्यात्, क्षतात्प्रहाराद्भयात् त्रायत इति क्षत्रियः, यो हि क्षत्रियः स्यात्स पुररक्षां प्रति क्षम एव स्यादिति हेतोः क्षत्रियेति सम्बोधनं प्रोक्तम् ॥ १८ ॥
एयम निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरसी, देविंदमिणमब्बवी ॥ १९ ॥ इति देवेन्द्रवचः श्रुत्वा पुनर्नमिराजर्षिर्देवेन्द्रं प्रतीदमब्रवीत् ॥ १९ ॥ सद्धं च नगरं किच्चा, तवसंयममग्गलं । खंतीनिऊणपागारं तिगुत्तं दुप्पधंसगं ॥ २० ॥ धणुं परक्कमं किच्चा, जीवं च इरियं सया । धिरं च केयणं किच्चा, सच्चेणं पलिमंथए ॥ २१॥ तवनारायजुत्तेणं, भित्तूर्णं कम्मकंचुयं । मुणी विगयसंगामो भवाओ परिमुच्चई ॥ २२ ॥ तिसृभिर्गाथाभिरिन्द्रवाक्यस्य प्रत्युत्तरं ददाति - भो प्राज्ञ ! मुनिर्जिनवचनप्रमाणकृत्साधुर्भवात्संसारात्परिमुच्यते, परि-समन्तान्मुक्तो भवति, मुक्तिसौख्यभाक् स्यात् । कथम्भूतो मुनिः ? विगतसङ्ग्रामः, विगतः सङ्ग्रामो यस्मात्स विगतसङ्ग्रामः, सर्वशत्रूणां विजयात्सङ्ग्रामरहितो जात इत्यर्थः । स मुनिः किं कृत्वा विगतसङ्ग्रामो जातस्तदाहश्रद्धां तत्त्वश्रवणरुचिरूपां समस्तगुणाधारभूताम् भगवद्वचने स्थैर्यबुद्धि नगरं कृत्वा, तत्र श्रद्धानगरे उपशमवैराग्यविवेकादीनि गोपुराणि कृत्वेत्यनुक्तमपि गृह्यते । तपोद्वादशविधम्, संयमं - सप्तदशविधम् अर्गलाप्रधानं कपाटमपि अर्गला, ततोऽर्गलाकपाटं कृत्वा, पुनस्तस्य श्रद्धानगरस्य क्षान्ति प्राकारं कृत्वा, क्षमां वप्रं कृत्वा, कथम्भूतं प्राकारं ? निपुणं परिपूर्णं धान्यपानीयादिभिर्भृतम् । पुनः कथम्भूतं प्राकारं ? तिसृभिर्गुप्तिभिर्गुप्तं रक्षितम्, गोपुराट्टालकोत्सूलकखातिकास्थानीयादिभी रक्षितम् । पुनः कीदृशं प्राकारं ? दुष्प्रधर्षिकं - शत्रुभिर्दुराकलनीयम्, पूर्वमिन्द्रेण प्राकारादीन् कारयित्वेत्युक्तम्, तस्योत्तरमिदं ज्ञेयम् । अथाधुना प्राकारादौ सङ्ग्रामो विधेय इत्याह
"