SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [१४१ ___भो प्राज्ञ ! वयं सुखं यथास्यात्तथा वसामः- सुखं तिष्ठामः सुखं यथा स्यात्तथा जीवामः- प्राणान् धारयामः । मो' इत्यस्माकं "किंचन' किमपि-स्वल्पमपि, ज्ञानदर्शनाभ्यां विना परं किमपि स्वकीयं नास्ति । यत्किञ्चिदात्मीयं भवति तद्विलोक्यते, अग्निजलाधुपदवेभ्यो रक्ष्यते, यदात्मीयं न भवति तस्यार्थं केन चेखिद्यते । यदुक्तम् - 'एगो मे सासओ अप्पा, नाणदंसणसंजुओ। सेसाण बाहिरा भावा, सव्वे संजोगलक्खणा ॥ १ ॥ तदेव दर्शयति-मिथिलायां नगर्यां दह्यमानायां 'मे'-मम किमपि न दह्यते, इति हेतोः सर्वेऽपि स्वजनधनधान्यादयः पदार्था मत्तोऽतिशयेन भिन्नाः, एतेषां विनाशे न चास्माकं विनाश इत्यर्थः ॥ १४ ॥ चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं न विज्जए किंचि, अप्पियंपि न विज्जए ॥ १५ ॥ एतादृशस्य भिक्षोभिक्षाचरस्य प्रियमप्रियं च न किञ्चिद्विद्यते । कथम्भूतस्य भिक्षोः ? त्यक्तपुत्रकलत्रस्य, त्यक्तानि पुत्रकलत्राणि येन स त्यक्तपुत्रकलत्रस्तस्य- परिहतसुतभार्यस्य, पुनः कीदृशस्य ? निर्व्यापारस्य, व्यापारान्निर्गतो निर्व्यापारस्तस्य निरारम्भस्य पञ्चविंशतिक्रियारहितस्य ॥१५॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥ 'खु' इति निश्चयेन, मुनेः-साधोर्बहुभदं-प्रचुरं सुखं वर्तते । कथम्भूतस्य मुनेः ? अनगारस्य नियतवासरहितस्य, पुनः कीदृशस्य मुनेः ? भिक्षया गृहीताहारस्य, किं कुर्वतो मुनेः ? एकान्तमनुपश्यतः, एक एवाहमित्यतो निश्चय एकान्तस्तं निश्चयं विचारयत एकत्वभावनां भावयतः, पुनः कीदृशस्य मुनेः ? सर्वतः परिग्रहाद्विप्रमुक्तस्य ॥१६॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ इति नमिराजर्षेर्वचनं श्रुत्वा देवेन्द्रः, पुनर्नमिराजर्षि प्रतीदमब्रवीत् ॥ १७ ॥ पागारं कारयित्ताणं, गोपुरट्टालगाणि य । उसूलगसयग्घीओ, तओ गच्छसि खत्तिया ॥ १८ ॥ हे क्षत्रिय ! ततः पश्चात्त्वं गच्छ, दीक्षार्थं गच्छेरित्यर्थः । किं कृत्वा? पूर्व नगरस्य रक्षार्थ १ एको मम शाश्वत आत्मा, ज्ञानदर्शनसंयुक्तः। शेषा (मत्तः) बाह्या भावाः, सर्वे संयोगलक्षणाः॥१॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy