________________
१४०]
[ उत्तराध्ययनसूत्रे कथम्भूते चैत्ये? मनोरमे-मनोज्ञे, कीदृशा एते खगाः? दुःखिताः, पुनः कीदृशा ?अशरणाः, पुनः कीदृशाः ? आर्ताः-पीडिताः । अत्र यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनम्, स्वयं वृक्षकल्पो यावत्कालं तवृक्षस्य स्थितिरासीत्तावत्कालं भोगादिषु स्थिरतासीत् । ततश्चाक्रन्दादिदारुण-शब्दानामभिनिष्क्रमणं हेतुत्वमसिद्धम्, स्वार्थहेतुकत्वात्तेषां स्वार्थ सीदमानं दृष्टैवं करोति सर्वो जनः, अतो भवदुक्ते हेतुकारणे असिद्धे एव, एतेषां स्वजनानां मया स्वार्थभङ्गः कृतो नास्ति । ममाप्यत्र स्थाने एभिः स्वजनैः सहेयत्येव स्थितिः, केनाप्यधिकीकर्तुं न शक्यते । तस्मान्मम मिथिलातो निःसरणं दीक्षाग्रहणं सर्वथा मिथिलावास्तव्यलोकानामा-क्रन्दशब्दहेतुः कारणं च नास्त्येवेत्यर्थः ॥१०॥
एयमद्रं निसामित्ता, हेऊकारणचोइओ।
तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥११॥ ततस्तदनन्तरं देवेन्द्रो नमिराजर्षि प्रतीदं वक्ष्यमाणं वचनमब्रवीत्, किं कृत्वा ? एतमर्थं निशम्य, कीदृशो देवेन्द्रः ? हेतुकारणाभ्यां प्रेरितः, अथवा हेतुकारणयोर्विषये नमिराजर्षिणा प्रेरितः, पूर्व हीन्द्रेण नमिराजर्षि प्रतीत्युक्तम्-भो नमिराजर्षे ! एतेषामाक्रन्दादिदारुणशब्दहेतुत्वात्तव दीक्षाग्रहणमयुक्तम्, पुनस्तेषामाक्रन्दादिशब्दरूपकार्यस्य तव दीक्षाग्रहणमेव कारणमित्युक्ते सति नमिराजर्षिणा च तेषामाक्रन्दादिदारुणशब्दस्य स्वार्थ एव हेतुकारणे उक्त, तेनासिद्धोऽयं भवदुक्तो हेतुः, कारणं चाप्यसिद्धमेवेति राजर्षिणेन्दः प्रेरितः सन्निदं वचनं नमिराजर्षि प्रति पुनरुवाचेत्यर्थः ॥११॥
एस अग्गी य वाओ य, एयं डझंति मंदिरं।
भयवं अंतेउरं तेण, कीस णं नावपेक्खह ॥१२ ।। हे भगवन् ! एष प्रत्यक्षोऽग्निर्वायुश्च दृश्यते, पुनरेतत्प्रत्यक्षं मन्दिरंदह्यते, तवेत्यध्याहार: तव गृहं प्रज्ज्वलति । हे भगवन् ! 'तेणं' इति तेन कारणेन, अथवा 'णं' इति वाक्यालङ्कारे, तवान्तःपुरं - राजीवर्गम्, 'कीस णं' इति कस्मात् कारणान्नोपेक्षसेनावलोकसे ? यद्यदात्मनो वस्तु भवति तत्तद्वीक्षणीयम्, यथात्मीयं ज्ञानादि, तथेदं भवतोऽन्तःपुरमपि ज्वलमानमवलोकनीयम् ॥१२॥
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिरायरिसी, देविदं इणमब्बवी ॥ १३ ॥ अस्या गाथाया अर्थस्तु पूर्ववत् अयमेव विशेष:-नमिराजर्षिर्देवेन्द्रस्य वचनं श्रुत्वा देवेन्द्रं प्रतीदमब्रवीत् ॥ १३ ॥ किमब्रवीदित्याह
सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्जमाणीए, न मे डज्जइ किंचणं ॥१४॥