________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[ १३९
तत इन्द्रप्रश्नानन्तरं नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् । किं कृत्वा ? एतमर्थमित्यर्थप्रतिपादकं शब्दं निशम्य श्रुत्वा । कथम्भूतो नमी राजर्षिः ? हेतुकारणाभ्यां चोदित:प्रेरितो हेतुकारणचोदितः, तत्र हेतुः पञ्चावयववाक्यरूपः, कारणं च येन विना कार्यस्योत्पत्तिर्न भवति । पञ्च अवयवा इमे प्रतिज्ञा १, हेतु २, उदाहरण ३, उपनय ४, निगमन ५ रूपाः । पक्षवचनं प्रतिज्ञा १, साध्यसाधकं हेतुः २, तत्सादृश्यदर्शनमुदाहरणम् ३, उदाहरणेन साध्येन च संयोजनमुपनयः ४, हेतूदाहरणोपनयैः साध्यस्य निश्चयीकरणं निगमनम् ५ । तथैव दर्शयति-तव धर्मार्थिनोऽस्मान्नगराद्गृहात्कुटुम्बाद्वा निःसरणं दीक्षाग्रहणमयुक्तमिति प्रतिज्ञावाक्यम् १ । कस्माद्धेतोः ? आक्रन्दादिदारुणशब्दहेतुत्वात्, इदं हेतुवाक्यम् २ | यद्य-दाक्रन्दादिदारुणशब्दहेतुकं भवति तत्तद्धर्मार्थिनः पुरुषस्यायुक्तम्, किंवत् ? हिंसादिकर्मवत्, यथा हिंसादिकर्मआक्रन्दादिदारुणशब्दहेतुकम्, तद्धिसादिकर्म च धर्मार्थिनोऽप्ययुक्तं भवति, इदमुदाहरणवाक्यम् ३ । तस्मात्तथा तवापि धर्मार्थिनो निःसरणमयुक्तम्, इदमुपनयवाक्यम् ४ । तस्मादाक्रन्दादिदारुणरौद्रशब्दहेतुत्वाद्धिसादिकर्मवत्सर्वथा तव गृहात्कुटुम्बान्नगरान्निःसरणमयुक्तमेव, इति निगमनवाक्यम् ५ । इति पञ्चावयवात्मको हेतुरुच्यते । कारणं दर्शयति-यदस्य पूर्वमसतो वस्तुन उत्पादकं तत्तस्य कारणम्, भवतो गृहान्निःसरणं दारुणशब्दकार्यस्य कारणं ज्ञेयम्, यदा भवतो गृहान्निःसरणं पूर्वं जातम्, तदा पश्चादाक्रन्दादिशब्दलक्षणं कार्यं जातम्, यदा भवतो दीक्षाग्रहणं न स्यात्तदाक्रन्दादिशब्दश्च कथं स्यादित्यर्थः ॥ ८ ॥
एवं हेतुकारणाभ्यामिन्द्रेण प्रेरितो नमिराजर्षिरथ यदब्रवीत्तदग्रेतनया गाथयाहमिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥ ९ ॥
वाएण हीरमाणंमि, चेइयंमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो खगा ॥ १० ॥
नमिराजर्षिः किमब्रवीदित्याह - मिथिलायां नगर्यां चैत्ये उद्याने भो ! एते खगाः पक्षिणः क्रन्दन्ति - कोलाहलं कुर्वन्ति । चितिः - पत्र - पुष्प फलादीनामुपचयः, चित्यां साधु चित्यम्, चित्यमेव चैत्यमुद्यानम्, तस्मिन् चैत्ये- उद्याने एते उच्यमाना खगा - विहगाः पूत्कुर्वन्ति । कथम्भूते चैत्ये ? मनोरमे मनोज्ञे, पुनः कीदृशे ? वृक्षैः शीतलच्छाये, कीदृशैर्वृक्षैः ? पत्र-पुष्प-फलोपेतैः पत्र-पुष्प- फलैर्युक्तः, पुनः कीदृशे चैत्ये ? बहूनां खगानां बहुगुणे प्रचुरो - कारजनके इत्यर्थः । एते खगाः क्व सन्ति विलपन्ति ? चैत्ये वृक्षे वातेन ह्रियमाणे सतीतस्ततः प्रक्षिप्यमाणे सति ''उद्याने देवगेहे च वृक्षे चैत्यमुदाहृतमि' त्यनेकार्थः । १ चैत्यं जिनौकस्तद् बिम्बं चैत्यो जिनसभातरुः । उद्देशवृक्षश्चोद्यं तु, प्रेर्ये प्रश्नेऽद्भुतेऽपि च ॥ ३५६अनेकार्थसंग्रहः ॥