________________
१३८ ]
[ उत्तराध्ययनसूत्रे
मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिक्खितो, एगंतमहिट्ठिओ भयवं ॥ ४ ॥
स भगवान् माहात्म्यवान् यशस्वी नमी राजा एकान्तं दव्यतो- वनखण्डादिकं भावतश्च सर्वसंयोगरहितत्वम्, एक एवाहमित्यतो निश्चयस्तमाश्रितः, पुनः कीदृशो नमिराजा ? अभिनिष्क्रान्तः, अभिः समन्तान्निष्क्रान्तः संसारान्निस्सृतः, किं कृत्वा ? मिथिलासपुरजनपदाम्, तथा बलम्, तथावरोधमन्तः पुरम्, तथा परिजनं सर्वं त्यक्त्वा, पुराणि च जनपदाश्च पुरजनपदाः, तैः सह वर्तत इति सपुरजनपदा, तां सपुरजनपदाम्, एतादृशीं मिथिलापुरीं हित्वा ॥ ४ ॥
कोलाहलगब्भूयं, आसी मिहिलाइ पव्वयंतंमि ।
तइया राइरिसिंमि, नर्मिमि अभिनिक्खमंतंमि ॥ ५ ॥
तदा तस्मिन् काले मिथिलायां नगर्यां सर्वं स्थानं कोलाहलकभूतमासीत्, कोलाहलोऽव्यक्तरोदनाक्रन्दितजनितकलकलशब्दः, कोलाहल एव कोलाहलकः, कोलाहलको भूतोजातो यस्मिंस्तत्कोलाहलकभूतम्, एतादृशं सर्वं स्थानं गृहविहारादिकं जातम् । क्व सति ? नौ राज्ञ्यभिनिष्क्रामति सति, गृहात्कुटुम्बात्क्रोधमानमायादिभ्यो वा निःसरति सति, कथम्भूते नमौ ? राजर्षी, राजा चासावृषिश्च राजर्षिस्तस्मिन् राजर्षी, राज्यावस्थायामपि ऋषिरिव ऋषिस्तस्मिन् राजर्षी ॥ ५ ॥
अब्भुट्ठियं रायरिसिं, पव्वज्जाठाणमुत्तमं ।
सक्को माहणरूवेण, इमं वयणमब्बवी ॥ ६॥
नमिं राजर्षि शक्रो ब्राह्मणरूपेणेदं वचनमब्रवीत् । कथम्भूतं राजर्षि ? उत्तमं प्रव्रज्यायाः स्थानं प्रव्रज्यास्थानं ज्ञानदर्शनचारित्रादिगुणस्थानानां निवासं प्रत्यभ्युत्थितमुद्यतमित्यर्थः ॥ ६ ॥
किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला
सुव्वंति दारुणा सद्दा, पासासु गिहेसु अ ॥ ७ ॥
'किमि 'ति प्रश्ने, 'नु' इति वितर्के, 'भो' इति आमन्त्रणे भो राजर्षे ! अद्य मिथिलायां प्रासादेषु देवगृहेषु भूपमन्दिरेषु च पुनस्त्रिक-चतुष्क- चत्वरादिषु दारुणा हृदये उद्वेगोत्पादका विलापा:- क्रन्दितादयः शब्दाः किं नु श्रूयन्ते ? इतीन्द्रो राजर्षि नमि पृच्छति स्मेत्यर्थः । कीदृशाः शब्दाः ? कोलाहलकसंकुला - अव्यक्तशब्दव्याप्ताः ॥ ७॥
एयम निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ८ ॥