SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [१३७ ताभिर्वलयानि समस्तान्युत्तारितानि, एकैकं मङ्गलाय रक्षितम्, तदानीं शब्दाश्रवणेन नमिना कश्चिनिकटस्थः सेवकः पृष्टः कथमधुना कङ्कणशब्दा न श्रूयन्ते ? तेनोक्तम्- स्वामिन् ! भवत्पीडाकरत्वेनान्तःपुरीभिः कङ्कणान्युत्तारितानि, एकैकं मङ्गलाय रक्षितमिति । नैकैककङ्कणशब्दाः श्रूयन्ते परस्परघर्षणाभावात् । एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिन्तयामास-यथा संयोगतः शुभा अशुभाः शब्दा जायन्ते, तथा रागादिका दोषाः संयोगत एव भवन्ति । यद्यस्मादोगादहं मुक्तः स्यां तदा सर्वसङ्गं विमुच्य दीक्षां गृह्णामि । तस्येति ध्यायमानस्य रात्रौ सुखेन निदा समायाता, निदायां स्वप्नमेवं ददर्श, गजमारुह्याहं मन्दरगिरिमारूढः । प्रातः प्रतिबुद्धः स नीरोगो जातः । स एवं व्यचिन्तयदमुं पर्वतं क्वाप्यहमदर्शम्, एवमुहापोहं कुर्वतस्तस्य जातिस्मरणमुत्पन्नम् । नमिराजा पूर्वभवं ददर्श । यदहं पूर्वभवे शुक्रकल्पे सुरोऽभूवम्, तदाहज्जन्माभिषेककरणायाहमस्मिन् मेरावागमम् । अथ कङ्कणदृष्टान्तेनैकत्वं सुखकारीति चिन्तयन्, प्रत्येकबुद्धत्वं प्राप्य प्रवजितो नमिः । तदा राज्यमन्तःपुरमेकपदे त्यजन्तं नमि ब्राह्मणरूपेण शक्रः समागत्य परीक्षितवान्, प्रणतवांश्च । शक्रपरीक्षासमये नमिराजसत्कं शक्रप्रश्ननमिराजयुत्तररूपं सूत्रं कथयति चईऊण देवलोगाओ, उववन्नो माणुसंमि लोगंमि। उवसंतमोहणिज्जो, सरई पोरणियं जाइं ॥१॥ जाईसरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे ।। पुत्तं ठवित्तु रज्जे, अभिनिक्खमई नमी राया ॥२॥ द्वाभ्यां गाथाभ्यां सम्बन्धं वदति-नमी राजा पुत्रं राज्ये स्थापयित्वा अभिनिष्क्रामति अभि-समन्तानिष्क्रामति, गृहवासान्निःसरति, अनगारो भवतीत्यर्थः । किं कृत्वा ? 'जाइ सरित्तु' जातिं स्मृत्वा - पूर्वभवं स्मृत्वा, कथम्भूतः स नमिः ? भयवं' भगवान् - धैर्यसौभाग्यमाहात्म्ययशोज्ञानादियुक्तः, पुनः कीदृशः?अनुत्तरे-सर्वोत्कृष्टे श्रीजिनधर्मे 'सहसंबुद्धो' स्वयंसम्बद्धः। इति द्वितीयगाथाया अर्थः। अथ प्रथमगाथाया अर्थ:-सनमिः पूर्वं देवलोके देव आसीत्, तेनेत्युक्तम् 'चइउण देवलोगाओ' देवलोकाच्च्युत्वा स नमिभूपो मनुष्यलोके मनुष्यजन्मन्युत्पन्नः। सच नमिभूप उपशान्तमोहनीयः सन् 'पौराणिकाजाति - पूर्वजन्मदेवलोकादि स्मरति । अत्र वर्तमाननिर्देशस्तत्कालापेक्षयोक्तः ॥२॥ सो देवलोगसरिसे , अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो राया [ भोए ] परिच्चयई ॥३॥ स नमी राजा बुद्धो-ज्ञाततत्त्वः सन् भोगान् परित्यजति, किं कृत्वा ? भोगान् भुक्त्वा, कथम्भूतान् भोगान् ? वरान् प्रधानान् सर्वेन्द्रियसौख्यदान्, कीदृशः सन् ? वरे प्रधानेऽन्तःपुरे गतः सन् स्त्रीसमूहे प्राप्तः सन्, कीदृशेऽन्तःपुरे ? देवलोकसदृशे देवाङ्गनासदृशे इत्यर्थः । भुक्तभोगस्य पुरुषस्य भोगा दुस्त्यजा इति हेतो गान् परित्यजतीत्युक्तम् ॥३॥ १ पौराणिकां जाति-मु०॥ ૧૮
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy