________________
१३६ ]
[ उत्तराध्ययनसूत्रे
सा साध्व्येवं वाचं विस्तारयामास । अनन्तदुःखैकभाजनेऽस्मिन् संसारे नृभवं प्राप्य पापैस्त्वं किं मुह्यसे ? हे राजन् ! तव बन्धुना चन्द्रयशसा स्वयमागतो हस्ती चेद् गृहीतस्तर्हि तेन समं कथं युद्धं करोषि ? क्रुद्धस्त्वं न किञ्चिद्वेत्सि । यदुक्तम् -
"लोभी पश्येद्धनप्राप्ति, कामिनीं कामुकस्तथा ।
भ्रमं पश्येदथोन्मत्तो, न किञ्चिच्च क्रुधाकुलः " ॥ १ ॥
इदं साध्वीवचो निशम्य नमिश्चिन्तयामास - अयं चन्द्रयशा युगबाहुभवोऽस्ति । अहं तु पद्मरथपुत्रोऽस्मि, इयं साध्वी सत्यवादिनी सती कथं मम चानेन समं भ्रातृत्वं वदतीति विमृश्य साध्वीं प्रत्येवं भाषते स्म । हे पूज्ये ! असौ क्व ? अहं क्व ? भिन्नकुलसम्भवयोर्मदेतयोः कथं भ्रातृत्वं वदसीति नमिनोक्ते साध्वी प्राह- हे वत्स ! यौवने ऐश्वर्यभवं मदं मुक्त्वा यदि शृणोसि तदा सकलं स्वरूपं कथ्यते, अथ श्रोतुमुत्सुकाय नमिनृपाय सर्वं पूर्वस्वरूपं साध्वी जगाद । पुनरेवं 'बभाषे सुदर्शनपुरस्वामी युगबाहुस्तवास्य च पिता, अहं मदनरेखा तव मातेति, पद्मरथस्तु तव पालकः पिता इति, अनेन भ्रात्रा समं मा विरोधं कुरु । बुद्ध्यस्व हितमिति साध्वीप्रोक्तं 'युगबाहुनामाङ्कितकरमुदादर्शनतश्च सर्वं नमिः सत्यं विवेद । तां साध्वीं प्रकामं चित्तोल्लासेन स्वमातरं मत्वा विशेषान्नमि प्रणनाम । उवाच च मातर्यत्त्वया प्रोक्तं तत्सर्वं तथ्यमेव, नात्र काचिद्विचारणास्ति । ममेयं करमुद्रा युगबाहुसुतत्वं ज्ञापयति, अयं चन्द्रयशा मे ज्येष्ठभ्राता भवति एव परं लोकः कथं प्रत्यायते । लघुभ्रातृवात्सल्यतो ज्येष्ठश्चेत्सन्मुखमायाति तदाहमुचितं विनयं कुर्वन् शोभामुद्वहामि । एवं नमिनृपोक्तमाकर्ण्य सा साध्वी दुर्गद्वारवर्त्मना प्रविश्य राजसौधे जगाम । चन्द्रयशाभूपस्तु तामकस्मादागतामुपलक्ष्य स्वमातरं साध्वीं विशेषादभ्युत्थाय 'नतवान्, उचितासनोपविष्टां तां साध्वीं वृत्तान्तं पृष्टवान् । साध्वी सकलं वृत्तान्तं नमिराजमिलनं यावत्कथयामास । चन्द्रयशा नृपस्तं नर्मि निजलघुभ्रातरं मत्वा सभालोकान् प्रत्येवमुवाच
"सुलभाः सन्ति सर्वेषां, पुत्रपत्न्यादयः शुभाः ।
दुर्लभः सोदरो, बन्धुर्लभ्यते सुकृतैर्यदि” ॥ १ ॥
इत्युक्त्वा चन्द्रयशानृपोऽपि पुराद्बहिर्निर्गतः । नमिरपि तं ज्येष्ठभ्रातरमभ्यागच्छन्तं दृष्ट्वा सिंहासनादुत्थाय भूतलमिलच्छिराः प्रणनाम । चन्द्रयशा नृपोऽपि स्वकराभ्यां तं भूतलादुत्थाप्य भृशमालिलिङ्ग । तुल्याकारौ तुल्यवर्णौ तावेकमातृपितृत्वसमभूतत्वेन तदा परमप्रीतिपदं जातौ । लोकैः सहोदरौ ज्ञातौ चन्द्रयशा नृपस्तु तदानीमेव नमिबन्धवे सुदर्शनपुरराज्यं ददौ । स्वयं सङ्ग्रामाङ्गणमध्ये दीक्षां ललौ । क्रमेण राज्यद्वयं पालयन्नमिः क्षितौ प्रचण्डाज्ञां जज्ञे ।
1
2
अन्यदा नमेर्वपुषि दाघज्वरो जातः । पूर्वकर्मदोषेण तस्य षण्मासिकी पीडा समुत्पन्ना । निद्रामपि न लेभे अन्तःपुरीनूपुरशब्दा अपि कर्णशूलायासन्, नमिराज्ञो दाघज्वरशान्तये स्वयं चन्दनं घर्षयन्तीनामन्तःपुरीणां वलयशब्दा' रोमसु भल्लप्राया बभूवुः । तत्र १ सा बभाषे - मु० ॥ २ तथा युगबाहु- मु० ॥। ३ मेने मु० ॥ ४ वर्तते मु० ॥ ५ ननाम मु० ॥ ६ वलयशब्दास्तु भल्ल - मु० ॥