________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[ १३५
प्रियं कुर्वे ? सा प्राह मम मुक्तिरेव प्रिया, नान्यत्किमपि, तथापि सुताननं द्रष्टुमुत्सुकां मां त्वमितो मिथिलां पुरीं नय । तत्राहं निर्वृतात्मना परलोकहितं करिष्यामीत्युक्तवन्तीं तां देवो मिथिलापुरी निनाय । तत्र प्रथमं मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम । वन्दित्वा पुरो निविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामास मूढचेतसो जना धर्माद्विना भवक्षयमिच्छन्तोऽपि मोहवशेन पुत्रादिषु स्नेहं कुर्वन्ति । संसारे हि मातृ-पितृ-बन्धु-भगिनीदयिता- वधू- प्रियतम-पुत्रादीनामनन्तशः सम्बन्धा जाताः, लक्ष्मीकुटुम्बदेहादिकं सर्वं विनश्वरम्, धर्म एवैकः शाश्वतः । इत्यादि साध्वीवाक्यैः प्रतिबुद्धा सा सती देवेन पुत्रदर्शनार्थं प्रार्थिता एवमाह - भववृद्धिकरेण प्रेमपूरेण ममालम्, अतः परं तु साध्वीचरणा एव शरणमित्युक्त्वा साध्वीसमीपे सा प्रव्रज्यां जग्राह । देवस्तां वन्दित्वा स्वस्थाने जगाम ।
पद्मरथस्य गृहे यथा यथायं बालो वर्धते तथा तथा तस्यान्ये राजानो ऽनमन् । ततः पद्मरथो राजा तस्य बालस्य नमिरिति नाम कृतवान् । वृद्धिं व्रजतस्तस्य बालस्य कलाचार्यसेवनात्सर्वाः कलाः समायाताः, सकललोकलोचनहरं यौवनमप्यस्यायातम् । पित्रा चाष्टाधिकसहस्रराजकन्यापाणिग्रहणं कारितम् । पद्मरथोऽस्मै राज्यं दत्वा स्वयं तपस्यां गृहित्वा केवलज्ञानं प्राप्य मोक्षं गतवान् । नमिराजा प्राज्यं राज्यं पालयामास । न्यायेन यशस्पात्रमभूत् ।
अथ पूर्वं युगबाहुं हत्वा मणिरथनृपः सिद्धमनोरथः स्वं धाम जगाम । तत्र तदानीमेव प्रचण्डसर्पेण दष्टस्तुर्यं नरकं जगाम । द्वयोर्भ्रात्रोरूर्ध्वदेहिकं कृत्वा मन्त्रिभिर्यु - गबाहुपुत्रश्चन्द्रयशा राज्येऽभिषिक्तः । स न्यायेन राज्यं पालयति । अन्यदा नमिराज्ञो धवलकान्तिर्गजो मदोन्मत्त आलानस्तम्भमुन्मूल्यापरान् हस्तिनोऽश्वान् मनुष्यानपि त्रासयंश्चन्द्रयशानृपनगरसीम्नि समायातः । चन्द्रयशानृपस्तमागतं श्रुत्वा समन्तात्सुभटैर्वेष्टयित्वा स्वयं वशीकृत्य च जग्राह । नमिराजाष्टभिर्दिनैस्तां वार्तां श्रुत्वा चन्द्रयशान्तिके दूतं प्रेषितवान् । दूतोऽपि तत्र गत्वा धवलकरिणं मार्गयामास । कुपितश्चन्द्रयशा दूतं गले धृत्वा नगराद्वहिर्निष्कासयामास । दूतोऽपि नमेः पुरो गत्वा स्वापमानं जगौ । कुपितो नमिराजा तुलसैन्यैः वेष्टितोऽच्छिन्नप्रयाणैः सुदर्शनपुरसमीपे समायातः । चन्द्रयशा भूपतिः स्वसैन्यवेष्टितो यावदभिमुखं युद्धार्थं चलितस्तावदपशकुनैर्वारितो मन्त्रिभिरेवमूचेस्वामिन्! कोट्टं सज्जीकृत्य तव साम्प्रतं पुरान्तरेऽवस्थातुं युक्तम् । कालविलम्बेनैतत्कार्यं कर्त्तव्यम् । ततश्चन्द्रयशाः शतघ्नीभिर्जलाद्युपस्करैश्च कोट्टं सज्जीकृतवान् । नमिस्तं कोट्टं स्वसैन्यैरवेष्टयत् । अधःस्थैः सैनिकैः सहोर्ध्वस्थानां सैनिकानां महान् सङ्ग्रामः प्रववृधे । नमिः कोट्टभङ्गं विधातुमुपायान् विविधान् करोति । चन्द्रयशा नृपस्तु कोट्टरक्षणे विविधानुपायान् करोति ।
अस्मिन्नवसरे तयोर्माता साध्वी मदनरेखा प्रवर्तिनीमनुज्ञाप्य तत्सङ्ग्रामवारणार्थं प्रथमं नमिराजसैन्ये समायाता । नमिरपि तां साध्वीं ननाम, आसने चोपविश्य नमेः पुरः १ यन्त्रविशेष