________________
१३४]
[उत्तराध्ययनसूत्रे पुनरत्रागतः । अतःपरं त्वं मे प्रिया भव, तवादेशकरोऽहमस्मि । तव पुत्रसम्बन्धो मया प्रज्ञप्तीविद्यया ज्ञातः । अश्वापहृतो मिथिलेश्वरः पद्मरथाख्यस्तत्रायातः।तं बालं सुरूपं दृष्ट्वा गृहीत्वा च स्वपल्यै ददौ । तत्रायं प्रकामं सुखभागस्ति । एवं तद्वचः श्रुत्वा मदनरेखाचिन्तयदसौ स्वतन्त्रो युवा दृप्तो मे शीलभङ्गं करिष्यतीति तावत्कालं मे विलम्बः श्रेयान् यावदस्य पिता साधुर्न वन्द्यते, तदुपदेशात्सर्वं भव्यं भविष्यतीति ध्यात्वा मदनरेखावदत्-हे भद ! त्वं मां प्रथमं नन्दीश्वरे नय । यथाहं तज्जिनबिम्बानि वन्दे । पश्चात्कृतकृत्याऽहं तवेप्सितं करिष्यामि । एवं तयोक्ते सहर्षो मणिप्रभस्तां विमानान्तर्निधाय नन्दीश्वरद्वीपे गतः । तत्र शाश्वतजिनबिम्बानि नत्वा मदनरेखात्मानं कृतार्थं मन्यमाना मणिप्रभेण समं चतुर्ज्ञानधरं चारणश्रमणं प्रासादमण्डपोपविष्टं मणिचूडमुनिं प्रणनाम । स मुनिस्तां सती मत्वा स्वसुतं च लम्पटं मत्वा तथा देशनां विस्तारयामास-यथासौ युवा विद्याधरः स्वदारसन्तोषव्रतं जग्राह । मदनरेखां च स्वाम्बां भगिनीं च मेने ।अथ सा हृष्टमानसा सती स्वपुत्रस्य कुशलोदन्तं पप्रच्छ । मुनिराह-हे महानुभावे ! शोकं मुक्त्वा सर्वं सुतवृत्तान्तं श्रृणु।
जम्बूद्वीपे पुष्कलावती विजयोऽस्ति, तत्र मणितोरणापुरी, तस्यां मितयशाराजा, स च चक्रवर्त्यभूत् । तस्य पुष्पवती कान्ता, तयोः पुष्पसिंह-रत्नसिंहाभिधानी पुत्रावभूताम् । तौ सदयौ विनीतौ धर्मकर्मरतौ स्तः । अन्यदा तौ राज्ये स्थापयित्वा चक्रवर्ती तपस्यां जग्राह । तौ द्वावपि भ्रातरौ चतुरशीतिलक्षपूर्वं यावदाज्यं प्रपालयतः । एकदा च तौ दीक्षां गृहीतवन्तौ, षोडशपूर्वलक्षाणि यावद्दीक्षां प्रपालयतः, अन्ते समाधिना मृत्वाऽच्युतकल्पे सामानिको देवौ जातौ । ततश्च्युत्वा धातकीखण्डभरते हरिषेणराज्ञः समुद्रदत्ताभार्यासुतौ सागर-देवदत्ताभिधानी धार्मिकौ सहोदरौ जातौ ।अन्यदा तौ द्वादशतीर्थङ्करस्य दृढसुव्रतस्य बहु व्यतिक्रान्ते तीर्थे सुगुरुसमीपे दीक्षामगृहीताम् । तृतीये दिवसे तौ द्वावपि विद्युत्पातेन मृत्वा शुक्रदेवलोके महर्द्धिकौ देवावभूताम् । अन्येद्युस्तौ देवावत्रैव भरते श्रीनेमिजिनेश्वरमिति पृष्टवन्तौ-हे भगवन् ! नावद्यापि कियान् संसारस्तिष्ठति ? स भगवान् प्राह-युवयोर्मध्ये एको अत्रैव भरते मिथिलापुर्यां विजयसेनभूपतेः पद्यरथः पुत्रो भावी, एकस्तु सुदर्शनपुरे युगबाहुपुत्रो मदनरेखाकुक्षिसम्भूतो नमिनामा भविष्यति, तस्मिन् भवे द्वावपि युवां शिवपदं प्राप्स्यथ । एवं नेमिजिनवचनं निशम्य निजमायुः पूर्ण विधाय एको मिथिलापुरि पद्मरथो नृपो अभवत् । तेन पद्मरथेनाश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे ! स तव पुत्रो दृष्टो गृहीतश्च मिथिलायां नीत्वा स्वपल्यै समर्पितश्च, तेन तज्जन्मोत्सवो महान् विहितः । __अत्रान्तरे तत्र नन्दीश्वरप्रासादे अन्तरिक्षादेकं विमानमवततार, तन्मध्यादेको दिव्यविभूषाधरः सुरो निर्गत्य मदनरेखां त्रिःप्रदक्षिणीकृत्य प्रथमं प्रणनाम, पश्चान्मुनि प्रणम्याग्रे निविष्टः सुरो मणिप्रभविद्याधरेन्द्रेण विनयविपर्यासकारणं पृष्टः स सुरः प्राहअहं पूर्वभवे युगबाहु-मणिरथनाम्ना बृहद्भात्रा निहतः, अनया ममाराधनाऽनशनादिकृत्यानि कारितानि, तत्प्रभावादहमीदृशो ब्रह्मदेवलोके देवो जातः । ततो धर्माचार्यत्वादहमिमां प्रथमं प्रणतः । एवं खेचरं प्रतिबोध्य स सुरो मदनरेखां जगौ-हे सति ! त्वं समादिश ? किं