________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[१३३ पूर्णेन्दुं ददर्श । तया युगबाहवे स्वप्नो निवेदितः, युगबाहुना कथितं तव सुलक्षणः पुत्रो भविष्यति । तस्याः गुरुदेववन्दनार्चादोहद उत्पन्नः, युगबाहुस्तमपूपुरत् । । अन्यदा युगबाहुर्वसन्ते मदनरेखया सममुद्याने रन्तुंगतः। तत्रैव रात्रौ कदलीगृहे सुप्तः । परिवारः समन्तात्तद् गृहंवेष्टयित्वा स्थितः, तदावसरंज्ञात्वा मणिरथनृपस्तत्रैकाकी समायातः । अद्य युवराजात्र कथं सुप्त इति यामिकान् प्रत्युवाच । युगबाहुरपि कदलीगृहादहिरागत्य मणिरथपादौ ननाम । नमतोऽस्य स्कन्धदेशे मणिरथः खड्गं चिक्षेप । उवाचैवं च धिग्मे प्रमादतः करात्खड्गं पतितम् ।मणिरथेङ्गिताकारेण तदुष्कर्म ज्ञात्वाऽपिस्वामीत्युपेक्षितः । इतोऽवसरे इत्युक्तश्च मणिरथः सद्यस्ततो गतः । पितृघातवातां निशम्य चन्द्रयशा पुत्रो घातचिकित्सिकैः परिवृतस्तत्रायातः । चिकित्सिकैरन्त्यावस्थागतं युगबाहुं निरीक्ष्य धर्म एवास्यौषधमिति प्रोक्तम् ।मदनरेखा स्वभर्तुरन्त्यावस्थां विलोक्य विधिनाराधनां कारयामास ।
हे दयित ! मे विज्ञप्ति श्रृणु! धनाङ्गनादिषु मोहं त्यज, जैनधर्म स्वीकुरु, हितं भजस्व, धर्मप्रसादादेवप्रधानं कुटुम्बदेहगेहादिकं भवान्तरेप्राप्स्यसि।सर्वाण्यपिपापानि सिद्धसाक्षिकमालोचय, पुण्यान्यनुमोदय, सर्वजीवान् क्षामय,अष्टादशपापस्थानानि व्युत्सृज,अनशनं चकुरु।शुभभावनां भावय, चतुःशरणान्याश्रय, परमेष्ठिमन्त्रस्मरणं कुरु, मनसा सम्यक्त्वमाश्रय । इत्येवं मदनरेखावचनानि श्रद्दधानः पञ्चपरमेष्ठिमन्त्रं स्मरन् युगबाहुः परलोकमसाधयत्।
अथ मदनरेखा मनस्येवं व्यचिन्तयत्-अथ स्वतन्त्रो ज्येष्ठो मम शीलं विध्वंसयिष्यति, ततो निःसरणावसरो मम साम्प्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता । सद्य एकाकिन्येव व्रजन्त्युत्पथमाश्रिता, क्वापि महत्यामटव्यां प्राप्ता, विभावरी विरराम । जातं प्रभातम्।सा देवगुरुनामस्मरणंचकार।मध्यान्हे सा प्राणयात्रां फलैरेवाकरोत्, तस्यामेवाटव्यां रात्रौ सुप्तायास्तस्याः शीलप्रभावेण न किञ्चिद्भयं बभूव ।सा सत्यर्धरात्रौ पुत्रं सुषुवे, पितृनामाङ्कितमुद्रिकां तस्याङगुलौ क्षिप्त्वा रत्नकम्बलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचार्थं सरसि गता, तत्र स्नानं कुर्वन्ती जलकरिणा शुण्डादण्डेन गृहीता नभस्युत्क्षिप्ता, नभसोऽपिच पतन्तीं तां कश्चित्तरुणविद्याधरो वैताढ्यं निनाय ।सा विद्याधरं प्राह-बन्धोऽहमद्य निश्यटव्यां पुत्रमजीजनम्, स तु रत्नकम्बलवेष्टितो मया तत्रैव मुक्तोऽस्ति । अहं तु सरसि स्नानं कुर्वन्ती जलकरिणोत्क्षिप्ता त्वया गृहीतात्रानीता।
अथ त्वं ततो मत्पुत्रमिहानय । मां वा तत्र नय । अन्यथा बालस्य तत्र मरणापद्भविष्यति, त्वं प्रसीद, मां पुत्रेण मेलय । पुत्रभिक्षाप्रदानेन त्वं मे दयां कुरु । सोऽपि युवा विद्याधर एतस्यां सरागं चक्षुः क्षिपनेवमुवाच । गन्धारदेशे रत्नवाहं नाम नगरमस्ति, तत्र विद्याधरेन्द्रो मणिचूडो वर्तते । अस्य प्रिया कमलावती मणिप्रभनामानं पुत्रं माम् असूत । यौवनावस्था गतस्य च मे श्रेणिद्वयराज्यं दत्वा मणिचूडः स्वयं प्रव्रज्यां जग्राह ।
स चारणमुनिश्चतुर्ज्ञानी भूत्वा साम्प्रतमष्टमे (नंदीश्वर) द्वीपे जिनबिम्बानि नन्तुं समायातोऽस्ति । अहं तत्र वन्दितुं गच्छन्नभूवम्, अन्तराले त्वां दृष्ट्वा लात्वा चाहं