________________
१३२]
[उत्तराध्ययनसूत्रे कृत्वा चण्डप्रद्योतः स्वार्धासने निवेशितः । (चण्डप्रद्योतः) प्राञ्जलीभूय एवं बभाषे, मत्प्राणास्तव वशगाः सन्ति । मच्छ्यिस्त्वदायत्ताः सन्ति, त्वं मम प्रभुरसि, अहमतःपरं सदैव तव सेवकोऽस्मि।
अथ तद्भाववेत्ता द्विमुखराजा चण्डप्रद्योताय तदैव निजां पुत्रीं ददौ, ज्योतिर्विद्भिः सुमुहूर्ते दत्ते चण्डप्रद्योतनृपो द्विमुखराजपुत्री परिणीतवान् । करमोक्षावसरे च तस्मै घनं द्रव्यं दत्तमवन्तीदेशं च दत्तवान् । कन्यासहितं चण्डप्रद्योतं स्वदेशे द्विमुखो विसर्जितवान् । ____ अन्यदा द्विमुखनरेन्द्रस्य पुरे लोकैरिन्द्रस्तम्भोऽद्भूतः कृतः पूजितश्च । द्विमुखनृपोऽपि तं भृशं पूजितवान् । तस्मिन्महे व्यतीतेऽन्येास्तमिन्द्रस्तम्भं विलुप्सशोभममेध्यान्तः पतितं द्विमुखराजा ददर्श । एवं चचिन्तितवान्-जनैर्यः पूजितो मणिमालाकुसुमादिभिश्च श्रृङ्गारितः, सोऽयमिन्द्रस्तम्भः साम्प्रतमीदृशो जातः । यथायं स्तम्भः पूर्वापरावस्थाभेदमाप्तस्तथा सर्वोऽपि संसारी भिन्नां भिन्नामवस्थामाप्नोति ।अवस्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्त समताश्रयणाद्भवति, समता च ममतापरित्यागाद्भवति, ममतापरित्यागस्तु संयम विना न भवतीति वैराग्यमापन्नः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजा स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव । उक्तं च -
"वीक्ष्याचितं पौरजनैः सुरेश - ध्वजं च लुप्तं पतितं परेऽह्नि । भूतिं त्वभूतिं द्विमुखो निरीक्ष्य, बुद्धः प्रपेदे जिनराजधर्मम्" ॥ १ ॥ इति द्वितीयप्रत्येकबुद्धद्विमुखचरित्रं समाप्तम् ॥२॥
यदानी द्विमुखराजा प्रतिबुद्धस्तदानीमेव नमिराजा प्रतिबुद्धः । अथ तृतीयप्रत्येकबुद्धनमिचरित्रमुच्यते
मालवमण्डलमण्डनं सुदर्शनपुरमस्ति । तत्र मणिरथो राजा, तस्य भ्राता युगबाहुर्वर्तते । तस्य भार्या सुशीला सुरूपा मदनरेखा वर्तते ।सा बालावस्थात आरभ्य सम्यक्त्वमूलद्वादशव्रतानि जग्राह । तस्याः पुत्रश्चन्द्रयशा वर्तते ।अन्यदा मणिरथेन मदनरेखा दृष्टा, तदूपमोहितो नृप एवं चिन्तयति-इयं मदनरेखा मम कथं वशीभवति ? प्रथम साधारणैः कृत्यैस्तां विश्वासयामि, पश्चात्कामाभिलाषमपि तस्याः समये कारयिष्येऽहम्, दुष्कर कार्य बुद्ध्या किं न सिद्धयति ? एवं चिन्तयित्वा राजा तस्यै कुसुमताम्बूलवस्त्रालङ्कारादि प्रेषयति । साऽपि निर्विकारा ज्येष्ठप्रेषितत्वात्सर्वं गृह्णाति। ..
एकदा मणिरथस्तामेकान्ते स्वयमित्युवाच - हे भद्रे ! त्वं मां भर्तारं विधाय यथेष्टं सुखं भुक्ष्व । सा जगौ-हे राजन् ! तव लघुबन्धुसत्ककलत्रे मयि एतादृशं वचनमयुक्तम् । त्वं निष्कलङ्कभूरिसत्वश्च पञ्चमो लोकपालोऽसि । एवं वदंस्त्वं किं न लज्जसे ? शस्त्राग्निविषयोगैर्मृत्युसाधनं वरम्, निजकुलाचाररहितं जीवितं न श्रेयः । परस्त्रीलम्पटाः स्वजीवितं यशश्च नाशयन्ति । तयैवं प्रतिबोधितोऽपि नृपः कदाग्रहं न मुमोच। एवं च व्यचिन्तयद्यद्यस्याः प्रीतिपात्रं मदनुबन्धुर्युगबाहुापाद्यते तदेयं मम वशीभवति । अन्यदा मदनरेखा स्वप्ने