________________
१३०]
[ उत्तराध्ययनसूत्रे
एवमुक्त्वा दधिवाहनेन तिरस्कृतः स दूतस्तत्र गत्वा करकण्डुनृपाय यथार्थमवदत् । करकण्डुनृपोऽपि प्रकामं क्रुद्धः स्वसैन्यपरिवृतश्चम्पापुरसमीपे समायातः । दधिवाहनोऽपि पुरीदुर्गं सज्जीकृत्य स्वयं बहिर्निस्ससार । उभयोः सैन्ये सज्जीभूते यावता योद्धुं लग्ने तावता सा साध्वी तत्रागत्य करकण्डुनृपतिं प्रत्येवमूचे, होकरकण्डुनृप ! त्वयाऽनुचितं पित्रा सह युद्धं किमारब्धम् ? करकण्डुनृपः प्राह- हे महासति ! कथमेष दधिवाहनोऽस्माकं पिता ? साध्वी स्वस्वरूपमखिलं तमूचे । आर्यां मातरं दधिवाहनं च पितरं मत्वा करकण्डुनृपो जहर्ष । तथापि करकण्डुनृपोऽभिमानात्स्वपितरं दधिवाहनं नन्तुं नोत्सहते । तदा साध्व्यपि दधिवाहनसमीपे गता, दधिवाहनभृत्यैरूपलक्षिता, दधिवाहनभूपाय राज्ञी साध्वीरूपा समागतेति वर्धापनिका दत्ता । अथ दधिवाहननृपोऽपि तां साध्वीं ननाम गर्भवृत्तान्तं च पप्रच्छ । साध्व्यूचे सोऽयं ते तनयो येन सह त्वया युद्धमारब्धमस्ति । अथ दधिवाहननृपः प्रीतात्मा पादचारी करकण्डुनृपं प्रति गत्वा हे वत्स ! उत्तिष्ठेत्युक्त्वा तमुत्थाप्याश्लिष्य च शिरस्याजिघ्रनहर्षा श्रुजलसहितैस्तीर्थजलैः पुत्रोऽयं राज्यद्वयेऽपि दधिवाहनेनाभिषिक्तः, दधिवाहनः कर्मविनाशाय स्वयं दीक्षां गृहीतवान् ।
करकण्डुनृपो राज्यद्वयं पालयामास, चम्पायामेव स्वावासमकरोत् । तस्य गोकुलानीष्टान्यासन्, संस्थानाकृतिवर्णविशिष्टानि गोकुलानि कोटिसङ्ख्यानि तेन मेलितानि सतानि निरन्तरं पश्यन् प्रकामं प्रमोदं लभते ।
अन्येद्युः स्फटिकसमान एको गोवत्सस्तेन गोकुलमध्ये दृष्टः । अयं कण्ठपर्यन्तदुग्धपानैः प्रत्यहं पोषणीय इति गोपालान् स आदिष्टवान् । अन्यदा स मांसैः पुष्टतनुर्बलशाली घनघर्घरशब्देनान्यवृषभान् त्रासयन् भूपतिना दृष्टः, तथापि भूपतिस्तस्मिन् वृषे प्रीतिपर एव बभूव । साम्राज्यकार्यकरणव्यग्रो भूपतिः कतिचिद्वर्षाणि यावद् गोकुले नायातः ।
अन्यदा तद्दर्शनोत्कण्ठः स भूपतिस्तत्र समायातः । स वृषः क्व ? इति गोपालान् भूपतिः पप्रच्छ । गोपालैर्जराजीर्णः पतितदशनो हीनबलो वत्सैर्घट्टितदेहः कृशाङ्गः स दर्शितः । तथाविधं दृष्ट्वा भवदशां विषमां विचारयन् करकण्डुराजैवं चिन्तयति - यथायं वृषभः पूर्वावस्थां मनोहरां परित्यज्येमां वृद्धावस्थां प्राप्तः, तथा सर्वोऽपि संसारी संसारे नवां नवामवस्थां प्राप्नोति । मोक्षे चैवैकावस्था, मोक्षस्तु जिनधर्मादेव प्राप्यते । अतो जिनधर्ममेव सम्यगाराधयामीति परं वैराग्यं प्राप्तः करकण्डुराजा स्वयमेव प्राग्भवसंस्कारोदयात्प्रतिबुद्धः सद्यः शासनदेव्यर्पितलिङ्गस्तृणवद्राज्यं परित्यज्य प्रव्रज्यामाददे । उक्तं च -
"श्वेतं सुजातं सुविभक्त शृङ्गम्, गोष्टांगणे वीक्ष्य वृषं जरार्तम् । ऋद्धिं च वृद्धिं च समीक्ष्य, बोधात्कलिङ्गराजर्षिरवाप धर्मम् ॥ १ ॥"
इति करकण्डूनृपचरित्रं समाप्तम् ।
यदानीं करकण्डुराजा प्रतिबुद्धस्ततो द्विमुखराजा प्रतिबुद्धस्ततो द्विमुखचरित्रं प्रोच्यते