________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[१२९ सुलक्षणं वंशं दर्शितवानुक्तवांश्च मूलाच्चतुरङ्गुलत इमं वंशमादाय यः स्वसमीपे स्थापयति सोऽवश्यं राज्यं प्राप्नोति । इदं साधुवचस्तेन बालकेन ततस्थेनैकेन द्विजेन च श्रुतम्, द्विजस्तु तं वंशमाचतुरङ्गुलं छित्त्वा यावद् गृह्णाति तावत्करकण्डुना तत्करात्स वंशो गृहीतः स्वकरे, कलहं कुर्वतो द्विजस्य करकण्डुनोक्तं मत्पितृश्मशानवनोत्थवंशं नाहमन्यस्मै दास्ये, स ब्राह्मणः करकण्डूबालश्चेति द्वावपि विवदन्तौ नगराधिकारिपुरो गतौ । नगराधिकारिभिर्भणितमहो बाल ! तवायं वंशः किं करिष्यति ? स प्राह ममायं राज्यं दास्यति । तदाधिकारिणः स्मित्वैवमूचुर्यदा तव राज्यं भवति तदा त्वयास्य ब्राह्मणस्यैको ग्रामो देयः । शिशुस्तद्वचोऽङ्गीकृत्य स्वगृहमगात्, स विप्रोऽन्यविप्रैः सम्भूय तं बालं हन्तुमुपाक्रमत् । तं द्विजोपक्रमं ज्ञात्वा करकण्डूपिता जनङ्गमः स्वकलत्र-पुत्रयुक्त देशं विहायानश्यत् ।।
अथ सकुटुम्बः स जनङ्गमः क्षितितलं क्रामन् कञ्चनपुरं जगाम । तत्रापुत्रनृपे मृते सति सचिवैरधिवासितस्तुरगः करकण्डं दृष्ट्वा हेषारवं कृतवान्, तं सलक्षणं दृष्ट्वा नगरलोका जयजयारवं चक्रुः । अवादितान्यपि वाद्यानि स्वयं निनेदुः । स्वयं छत्रं शिरसि स्थितम् । ततोऽमात्यैरपि नवीनानि वस्त्राणि परिधाय स करकण्डुस्तमश्वमारोहितः । यावनगरलोकैः परमप्रमोदेन स पुरान्तः प्रवेशितस्तावद्विप्रास्तं म्लेच्छोऽयमिति कृत्वा न मेनिरे । तदा क्रुद्धः स शिशुस्तं वंशदण्डं रत्नमिव करे जग्राह । अधिष्ठातृदेवैर्कोम्नीति घुष्टम्, य इमं राजानमवगणयिष्यति तस्य मूर्ध्यसौ दण्डः पतिष्यति । इत्युक्त्वा सुरास्तच्छिरसि पुष्पवृष्टिं चक्रुः । भीताः सन्तो विप्रास्तस्य स्तुतिं कृत्वा वारंवारमाशीर्वादमुच्चरन्ति । अथ करकण्डुरेवमुवाचाहो ब्राह्मणा ! एते भवद्भिश्चाण्डाला गर्हितास्ततः सर्वेऽप्यमी वाटधानकवास्तव्याश्चाण्डालाः संस्कारैर्बाह्मणाः कार्याः । संस्कारादेव ब्राह्मणो जायते, न तु जात्या कश्चिद् ब्राह्मणो भवतीति भवदागमवचनात् । अथ ते ब्राह्मणाः प्रकामं भीतास्तन्नगरवाटधानकवास्तव्यांश्चाण्डालान् संस्कारैर्बाह्मणान् चक्रुः । उक्तं च -
"दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना ।
वाटधानकवास्तव्या-श्चाण्डाला ब्राह्मणाः कृताः" ॥१॥ अत्युत्सवेन काञ्चनपुरे प्रवेशितः स करकण्डूरमात्यैर्नुपपट्टेऽभिषिक्तः, क्रमात्स महाप्रताप्यभूत् ।
अन्यदा स वंशप्रतिवादी विप्रस्तं भूपं निशम्य ग्रामाभिलाषुकः सन् करकण्डुनृपपर्षदि प्राप्तः, करकण्डुनोपलक्ष्य तस्य विप्रस्योक्तम्-तव यदिष्टं तत्कथय । ब्राह्मणेनोक्तं मद्गृहं चम्पायां वर्तते, तेन तद्विषयग्राममेकमहमीहे।अथ करकण्डुनृपश्चम्पापूर्नाथस्य दधिवाहनभूपतेरस्मै द्विजाय त्वद्विषयग्राममेकं देहीत्याज्ञां प्राहिणोत् । आज्ञाहारिणं करकण्डुनृपस्य दूतं विस्मितचित्तः क्रुद्धश्चम्पापतिर्दधिवाहनः प्राह-अरे ! स म्लेच्छबालः स मृगतुल्यः करकण्डुः सिंहतुल्येन मया सह विरुध्यते । परवस्त्वभिलाषभवस्य पातकस्य तव स्वामिनः शुद्धि मत्खड्गतीर्थस्नानं दास्यति ।
૧૭