________________
१२८]
[उत्तराध्ययनसूत्रे मत्वाऽप्रमत्ता सत्याराधनां व्यधात्, सुकृतान्यनुमोद्य सर्वजीवेषु क्षमां कृत्वानशनं सागारं प्रपेदे । नमस्कारं ध्यायन्ती तत उत्थाय सैकया दिशा गच्छन्ती पुरस्तादेकं तापसं ददर्श । तापसेनेयमेवं पृष्टा-वत्से ! त्वं कस्य पुत्री ? कस्य प्रिया वा ? आकृत्यैव त्वं मया भूरिभाग्ययुता ज्ञाता, इयं का तवावस्था, कथय ? वयमभयाः शमिनस्तापसाः स्म । सा राज्ञी तं तापसं निर्विकारं निर्मलधर्मकरंच ज्ञात्वा स्ववृत्तान्तं सकलं जगौ । एतस्या राज्याः पितुश्चेटकराज्ञो मित्रेण तेन तापसेनोक्तं वत्से ! नातः परं त्वया चिन्ता कार्या, अयं भवः सर्वविपदामास्पदम्, सर्ववस्तूनामनित्यता चिन्तनीया। एवं प्रतिबोध्य सा राज्ञी तेन तापसेन स्वाश्रमं नीता, तस्याः प्राणयात्रा फलैः कारिता ।
अथ च देशसीम्नि तां नीत्वा स तापस एवं जगाद-हे पुत्रि ! अतः परं हलाकृष्टा सावद्या धरा वर्तते, सा मुनिभिर्नोल्लङ्घनीया, ततोऽहं पश्चाद्वलामि । अयं मार्गो दन्तपुरस्य वर्तते, तत्र दन्तवक्त्रनामा राजा वर्तते । इतः सुसार्थेन सह त्वं पुरे गच्छेः । एवं निगद्य स तापसः स्वाश्रमं जगाम । राज्ञी पुरान्तः साध्व्युपाश्रये जगाम । तत्र साध्व्या पृष्टे तया सकलोऽपि वृत्तान्तः कथितः । साध्वी तस्या एवमुपदेशं ददौ. अस्मिन् बहुदुःखागारे संसारे मृषाभास एव सर्वेषां सर्वोऽपि भवविस्तारो भवद्भिस्त्याज्यः । एवं साध्वीवचसा वैराग्यं गता सा तदैव दीक्षां जग्राह । स्वव्रतविघ्न भयात्सा सन्तमपि गर्भ न जगौ । कालान्तरे तस्या उदरवृद्धौ साध्व्या पृष्टं-किमेतत्तवेति ? तयोक्तं मम पूर्वावस्थासम्भवो गर्भो वर्तते, मया तु व्रतविघ्नभयानोक्तः । ततो महत्तरा साध्वी तां साध्वी'मुड्डाहनाभयेनैकान्ते संस्थापयामास । काले सा पुत्रं प्रसूय रत्नकम्बलेन संवृतं पितृनाममुद्राङ्कितं च कृत्वा श्मशाने दाग्मुमोच । तदा श्मशानपतिर्जनङ्गमस्तं बालकं तथाविधमालोक्य गृहीत्वा चानपत्यायाः स्वपल्याः समार्पयत् । सा श्रमणी गुप्तचर्यया तं व्यतिकरं ज्ञात्वा महत्तराया अग्रे एवमाचख्यौ मृत एव मया बालो जातस्ततो मया त्यक्तः । स बालो लोकोत्तरकान्तिर्जनङ्गमधाम्नि दत्तावर्णिकनामा ववृधे, सा साध्वी सततं बहिर्वजन्ती पुत्रस्नेहेन मातङ्गया सह कोमलालापैः सङ्गतिं चक्रे । स बालः प्रातिवेश्मिकबालकैः सह क्रीडन् महत्तेजसा भृशं राजते।
आगर्भ बहुशाकाद्यशनदोषेण तस्य बालकस्य कण्डुलतादोषोऽभवत् । स्वयं राजचेष्टां कुर्वाणः स बालः परबालैः सामन्तीकृतैर्देहकण्डूया करैः कारयति । ततो लोकैः करकण्डूरिति तस्य नाम दत्तम् । सा साध्वी तद्विलोकनार्थं मातङ्गपाटके निरन्तरं याति, भिक्षालब्धं मोदकादि तस्मै ददाति । श्रमणत्वेऽप्यपत्यजा प्रीतिस्तस्या दुस्तरेति बालकोऽपि तस्या दृष्टाया बहु विनयं करोति, प्रीतिं च दधाति । स बालकः षड्वर्षः पितुरादेशात् श्मशानं रक्षति ।
अन्यदा तस्मिन् श्मशाने रक्षति सति कोऽपि साधुर्ल' साधुं प्रति तत् श्मशानस्थं १क्षामणां-मु०॥२ मुड्डाहभये - D.L.॥