________________
॥अथ नवमं नमिप्रव्रज्याख्यमध्ययनं प्रारभ्यते ॥
अष्टमेऽध्ययने हि निर्लोभत्वमुक्तम्, निर्लोभः पुरुषो हीन्दादिभिः पूज्य:स्यात्, अतो नवमेऽध्ययने नमिराजर्षिरिन्देणागत्य भावपूर्वकं वन्दितः, इत्यष्टमनवमाध्ययनयोः सम्बन्धः । तत्र नमिस्तु प्रत्येकबुद्धः प्रत्येकबुद्धाश्चत्वारः, समकालसुरलोकच्यवन-प्रत्येकप्रतिबोधप्रवज्याग्रहण-केवलज्ञानोत्पत्तिसिद्धिगमनभाजो जाताः, तेषु प्रथमः करकण्डू: १, द्वितीयो द्विमुखः २, तृतीयो नमिराजा ३, चतुर्थो नगातिः ४, इति । तेषां प्रत्येकबुद्धानां कथानकमुच्यते । तत्र प्रथमं करकण्डूकथा यथा -
'करकंडूकलिंगेसु। पंचालेसु अदुम्मुहो। नमी राया विदेहेसु । गंधारेसु य नग्गई ॥ १ ॥ [उत्त. नियुक्तिः गा. २६४]
श्रीवासुपूज्य जिनपतिकल्याणकपञ्चकास्तपापायां चम्पायां नगयां दधिवाहननामा नृपोऽभूत्, तस्य चेटकमहाराजपुत्री पद्मावती प्रिया जाता । सान्यदा गर्भिणी बभूव, गर्भानुभावेन च तस्या ईदृशं दोहदमुत्पन्नम्, अहं पुंवेषधरा, भर्ना धृतातपत्रा,गजाग्रभागारूढाऽऽरामें सञ्चरामि, लज्जयेदं दोहदं भूपतेः पुरो वक्तुमशक्ता स कृशाङ्गी बभूव । राज्ञान्यदा तस्याः कृशाङ्गकारणं पृष्टम्, अतिनिर्बन्धेन सा स्वदोहदं कथयामास । राजात्यन्तं तुष्टस्तां पट्टहस्तिस्कन्धे समारोप्य स्वयं तच्छिरसि छत्रं धृतवान्, तादृश एव राजा गजारूढराज्ञीपश्चाद्भागे स्थितो वने ययौ, तस्मिन् समये तत्र जलदारम्भो बभूव, तत्र सल्लकीप्रमुखविविधवृक्षपुष्पगन्धैर्जलसिक्तमृद्गन्यैश्च विह्वलीभूतः स करी मदोन्मत्तः स्ववासभूमि स्मरनटवीं प्रत्यधावत् । अश्ववारः पदातिभिश्चासौ न स्पृष्टः, तेन गजेन गर्भान्वितया कदलीकोमलशरीरया राज्या साधं स राजा महाटव्यां नीतः । सम-विषमोन्नतदूरासन्नाननेकभावान् पश्यन् भूपतिर्वटमेकमायातं दृष्ट्वा भायां प्रतीदमवदत्-हे भदे ! पुरःस्थस्यास्य वटस्य शाखामेकामवलम्बेथास्त्वम्, अहमप्येका शाखामाश्रयिष्यामि, गजस्त्वेवमेव यातु ।
एवमुक्त्वा राजा वटशाखायां लग्नः, राज्ञी तु भयव्यग्रा वटावलम्बं कर्तुमक्षमा हस्तिनाग्रतो नीता, राजा तु वटादुत्तीर्य शनैः शनैर्मिलितसैन्यः पत्नीविरहदुःखितश्चम्पायां प्रविष्टः, राज्ञी दुष्टेन तेन हस्तिना महतीमटवीं नीता, तृषाकुलः स हस्ती चतुर्दिक्षु पानीयं पश्यन्ने सरो दृष्ट्वा तत्पाल्यावतीर्य यावदधः पतति तावत्सा राज्ञी वृक्षावलम्बन तत्स्कन्धादुत्ततार, गजस्तु ग्रीष्मतापितः सरोन्तर्विवेश। .... राज्ञी कान्तारं दृष्ट्वा भृशं भीता सती मनस्येवं चिन्तयामास-क्व च तन्नगरं ! क्व च सा श्रीः ! क्व तन्मन्दिरं ! क्व सा सुखशय्या ! दुष्कर्मणां विपाकात्सर्वं मे गतम् । अथवात्र वने विचित्रश्वापदैश्चेत्प्रमादवशगाया मम मृत्युभविष्यति, तदा मम दुर्गतिरेवेति १"करकण्डूः कलिङ्गेषु, पञ्चालेषु च द्विमुखः । नमी राजा विदेहेषु; गन्धारेषु च नगातिः ॥१॥"