SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२६ ] स्त्रीमूला हि तृष्णेति हेतोस्तत्परिहारार्थं गाथामाहनो रक्सीसु गिज्झिज्जा, गंडवच्छासुऽणेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलंति जहा व दासेहिं ॥ १८ ॥ [ उत्तराध्ययनसूत्रे राक्षसीषु नो गुद्धयेन्न विश्वसेत्, ज्ञानादिजीवितापहाराद्राक्षसीत्युक्तम् । कथम्भूतासु स्त्रीषु ? गण्डवक्षस्सु, गण्डं-गडुस्तदुपमत्वादुच्चैः कुचौ वक्षसी यासां ता गण्डवक्षसस्तासु गण्डवक्षस्सु, उच्चकुचस्फोटकवक्षस्कासु, वैराग्योत्पादनार्थं कुचयोर्गडूपमानम्, बिभत्स्योत्पादमुपमानम् । पुनः कीदृशीषु स्त्रीषु ? अनेकचित्तासु - अनेकेषु पुरुषेषु चित्तं यासां ता अनेकचित्तास्तासु, अथवानेकेषां पुरुषाणां चित्तं यासु ता अनेकचित्तास्तासु, अथवानेकानि चित्तानि-सङ्कल्पविकल्परूपाणि चिन्तनानि यासां ता अनेकचित्तास्तासु, याः स्त्रियो राक्षस्यः पुरुषं कुलीनं मानवं प्रलोभयित्वा त्वमेव मम भर्ता, त्वमेव मम जीवितम् त्वमेव मम शरणमित्यादिवचनैर्वशीकृत्य प्रीतिमुत्पाद्य तैः पुरुषैः सह रमन्तेक्रीडन्ति । कैः ? यथादासैर्यथेव दासैः क्रीड्यते, ते कुलीनपुरुषा अपि स्त्रीभिर्व्यामोहिताः सन्तो दासप्राया भवन्ति । यथा दासा गम्यताम्, स्थीयताम्, इदं कार्यं क्रियताम्, इदं कार्यं मा क्रियतामिति वचनं श्रुत्वा स्वाम्यादेशकारिणो भवन्ति, तथा नारीणां वशवर्तिनः पुरुषाः किङ्करा भवन्तीत्यर्थः ॥ १८ ॥ - नारीसु नोपगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं नच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥ १९ ॥ अनगारः - साधुः स्त्रीषुन गृद्धयेन गृद्धिकुर्यात्, अनगारः स्त्रियं विशेषेण प्रजह्यात्परित्यजेत्, पुनभिक्षुर्धर्म- ब्रह्मचर्यादिरूपं पेशलं - मनोज्ञं ज्ञात्वा तत्र - धर्मे आत्मानं स्थापयेत् ॥ १६ ॥ इइ एस धम्मे अक्खाए, कविलेणं विसुद्धपन्नेणं । तरिर्हिति जे उ कार्हिति, तेहिं आराहिया दुवे लोग ॥ २० ॥ त्ति बेमि ॥ इत्यमुनाप्रकारेणैष धर्मः कपिलेनाख्यातः कथितः । कथम्भूतेन कपिलेन ? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्मं करिष्यन्ति ते पुरुषाः संसारं तरिष्यन्ति, पुनस्तैः पुरुषैर्द्वावपि लोकावाराधितौ सफलीकृतावित्यर्थः ॥ २० ॥ इत्यादिदोधकान् - कपिलोक्तान् श्रुत्वा तत्र केचिच्चौराः प्रथमेनैव दोधकेन प्रतिबुद्धाः केचिद् द्वितीयेन, एवं पञ्चशतचौरा अपि प्रतिबुद्धाः प्रव्राजिताश्च ॥ इति कापिलीयमध्ययनमष्टमं सम्पूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मीकीर्तिगणिशिष्य श्रीलक्ष्मीवल्लभगणिविरचितायां कापिलिकाध्ययनस्यार्थः सम्पूर्णः ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy