________________
अथाष्टमं कापिलीयाख्यमध्ययनम् ८ ]
[१२५ "'जोइसनिमित्तअक्खर-कोउयआएसभूयकम्मेहिं । करणाणुमोयणिज्जे, साहुस्स तवक्खओ होइ" ॥ १ ॥ ॥ १३ ॥ इह जीवियं अनियमित्ता, पब्भट्ठा समाहि जोएहिं।
ते कामभोगरसगिद्धा, उववज्जति आसुरे काए ॥१४॥ ते कामभोगरसगृद्धा आसुरे काये उत्पद्यन्ते । किं कृत्वा ? इहास्मिन् संसारे जीवितमात्मानं तपोविधानादिना, 'अनियमित्ता' इत्यनियंत्र्यावशीकृत्य, ते के ? ये समाधियोगेभ्यः प्रभ्रष्टाः, समाधिना-स्थैर्येण योगा-मनोवाकायानामेकीभावाः समाधियोगास्तेभ्यः प्रभ्रष्टा:-प्रकर्षेणाधः पतिताः । पुनः कीदृशास्ते ? कामभोगरसगृद्धा विषयसेवनस्वादलोला, आसुरे कायेऽसुरकुमारयोनौ, अत्र अनियमित्ता' इत्युक्तेन किञ्चिदनुष्ठानं कृत्वाऽसुरकु मारत्वेनोत्पद्यन्ते, नितरामतिशयेन यमित्वा-नियम्य, न नियम्यानियम्योत्कृष्टं तपोऽकृत्वेत्यर्थः ॥१४॥
ततोवि य उवट्टित्ता, संसारं बहु अणुपरियद॒ति । .. बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लहा तेसिं ॥१५॥
ततोऽपि च ततोऽसुरनिकायादुद्धृत्य निःसृत्य बहुं संसारमनुपर्यटन्ति-बहुलं संसारं भ्रमन्ति । पुनस्तेषां संसारे भ्रमतां बोधिः- सम्यक्त्वलब्धिः सुदुर्लभा भवति । कथम्भूतानां तेषां ? बहुकर्मलेपलिप्तानां - प्रचुरकर्मपङ्कखरण्टितानाम् ॥१५॥
कसिणं पि जो इमं लोगं, पडिपुन्नं दलिज्ज इक्कस्स। तेणावि से ण तुसिज्जइ, इइ दुप्पूरए इमे आया ॥१६॥ यदिशब्दस्याध्याहारः, यदि कश्चिदिन्द्रादिदेव एकस्य कस्यचित्पुरुषस्य प्रतिपूर्ण धनधान्यादिपदार्थैर्भूतं कृत्स्नं समस्तलोकं-विश्वं दद्यात्तदापि तेन धनधान्यादिपरिपूर्णसमस्तलोकदानेन स पुरुषो न तुष्येत्, इति हेतोरयमात्मा दुष्पूरकः, दुःखेन पूर्यत इति दुष्पूरः, दुष्पूर एव दुष्पूरकः ॥ १६ ॥ पूर्वोक्तमर्थमेव दृढयति -
जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ ।
दोमासकयं कज्जं, कोडिएवि न निट्टियं ॥१७॥ यथा लाभस्तथा लोभः लाभाल्लोभः प्रवर्धते, द्विमाषार्थ-द्विमाषप्रमितस्वर्णग्रहणार्थ कृतं कार्यं स्वर्णकोटीभिरपि 'न निट्ठियं' न निष्ठितम्, पूर्ण न जातमित्यर्थः । माष तु पञ्चगुञ्जाप्रमाणम्, माषद्वयप्रमितस्वर्णेन कार्यं दास्याः पुष्प-ताम्बूलवस्त्राभूषणादिमूल्यरूपम्, तत्कार्य कोटिद्रव्येणापि परिपूर्णं नाभूत् ॥१७॥ १ ज्योतिष्-निमित्ताक्षरकौतुकादेशभृतकार्यैः । करणानुमोदनीये, साधोस्तपःक्षयो भवति ॥१॥