________________
१२४]
[उत्तराध्ययनसूत्रे जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च ।
नो तेसिमारंभे दंडं, मणसा वयसा कायसा चेव ॥१०॥ जगल्लोकास्तत्र निश्रिता-आश्रितास्तेषु जगनिश्रितेषु त्रसेषु स्थावरेषु च जीवेषु मनसा वचसा, च पुनः कायेन, तेषु दण्डं न समारभेत-वधं न कुर्यादित्यर्थः । अनोज्जयिन्यां श्राद्धपुत्रस्य कथा वाच्या ॥१०॥ ... सुद्धसणाओ नच्चाणं, तत्थ ठविज्ज भिक्खु अप्पाणं ।
जायाए गासमेसिज्जा, रसगिद्धे न सिया भिक्खाए ॥११॥
भिक्षुः-साधुः शुद्धषणां ज्ञात्वा - शुद्धाहारग्रहणं विज्ञाय, तत्र - निर्दोषग्रहणे आत्मानं स्थापयेत्, पुनः साध्वाचारंवदति भिक्षादो-भिक्षाचरो मुनिर्यात्रायै - शरीरनिर्वाहाय ग्रासमाहारमेषयेत्-गवेषयेत्, न पुनः साधू रसगृद्धः स्यात् ॥११॥
पंताणि चेव सेविज्जा, सीयपिंडपुराणकुम्मासं । अदुव बुक्कसं पुलागं वा, जवणट्ठा य निसेवए मंथु ॥१२॥
साधर्यापनार्थ--शरीरनिर्वाहार्थं प्रान्तानि - निरसाण्यन्नपानीयानि सेवेत, च पुनरन्तान्यपि सेवेत । तानि प्रान्तान्यन्तान्यन्नपानीयानि कानीत्याह-शीतं पिण्डम्, शीत:शाल्यादिस्तस्य पिण्डः शीतपिण्डस्तम्, पुनः पुराणकुल्माष- पुराणाः- प्रभूतकालं यावत्सञ्चिताः, पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः पुरातनराजमाषास्तान्, प्राकृतत्वादेकवचनम्, 'अदुव्व' अथवा 'बुक्कसं' अतिनिपीडितरसं-तुषमात्रस्थितम्, 'बुक्कसं' मुद्गादीनां तुषं वा, अथवा पुलाकमसारं वल्लचणकादिकम्, पुनः शरीरधारणार्थं 'मन्थु' बदरचूर्ण निषेवेत, बदरचूर्णस्यापि रूक्षतया प्रान्तत्वम्, अत्र यापनार्थमित्युक्तं तेनायमों ज्ञेयः- यदि त्वतिवातादिना तद्देहयापना नैव स्यात्ततो न निषेवेत, अपि स्थविरो ग्लानश्च येनाहारेण शरीरे सुखं स्यात्तदाहारं सेवेत, अयमों ज्ञेयः ॥१२॥
जे लक्खणं च सुविणं च, अंगविज्जं च जे पओजंति ।
न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥ _ 'हु' इति निश्चये न ते श्रमणा उच्यन्ते आचायैरेवमाख्यातम् । ते के ? ये लक्षणं सामुदिकशास्त्रोक्तं द्वात्रिंशत्प्रमाण - माषतिलकादिकं च, च पुनः स्वप्नं-स्वप्नशास्त्रं
'गजारोहणाद्भवेद्राज्यं, श्रीप्राप्तिः श्रीफलागमात् ।
पुत्राप्तिः फलिताम्रस्य, सौभाग्यं माल्यदर्शनात्' ॥ १ ॥ इत्यादि अङ्गविद्यामङ्गस्फुरणफलशास्त्रं यथा -
- "शिरसः स्फुरणे राज्यं, हृदयस्फुरणे सुखं ।
बाह्वयोश्च मित्रमेलापो, जङ्घयोर्भोगसङ्गमः" ॥ १ ॥ इत्यादि सर्व मिथ्याभुतं साधुना न प्रयोज्यमित्यर्थः । यदाह धर्मदासगणिः क्षमाश्रमण: