________________
अथाष्टमं कापिलीयाख्यमध्ययनम् ८]
समणा मु एगे वयमाणा, पाणवहं मिया अयाणंता । मंदा निरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ॥ ७ ॥
एके- केचित्कुती - मिथ्यात्विनः पापिकाभिः- पापहेतुकाभिर्हष्टिभिर्बुद्धिभिः प्राणवधमधर्ममजानन्तो नरकं गच्छन्ति । कथम्भूतास्ते मृगाः ? अविवेकिनः पुनः कीदृशास्ते ? मन्दा-जडाः, यथा केचिद्रोगग्रस्ताभिर्दृष्टिभिः सम्यग्मार्गमजानन्तः कस्मिंश्चिद् दुःखव्याप्ते मार्गे व्रजन्ति । पुनस्ते केचित्कुतीर्थ्याः किं कुर्वन्तः ? 'मु' इति वयं श्रमणा इति 'वयमाणा' वदन्तः श्रमणधर्मरहिता अपि स्वस्मिन् श्रमणत्वं मन्यमाना इत्यर्थः । यदि प्राणवधमपि न जानन्ति तदान्येषां मृषावादादीनां तु ज्ञानं तेषु कुत एव सम्भाव्यते । कथम्भूतास्ते ? मन्दा मिथ्यात्वरोगग्रस्ताः पुनः कथम्भूतास्ते ? बाला - विवेकहीनाः, विवेक - हीनत्वं हि तेषां पापशास्त्रेषु धर्मशास्त्रबुद्धित्वात् । तद्यथा - "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रमालभेत, मरुद्भ्यो वैश्यं, तमसे शूद्रम्" तथा
"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ।
आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥ १ ॥” ( धर्मो हि बालैरज्ञेयः ॥ ७ ॥ )
नहु पाणवहमणुजाणे, मुच्चिज्ज कयाइ सव्वदुक्खाणं । एवमायारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो ॥ ८ ॥
[ १२३
तैरार्यैः पूज्यैराचार्यैरेवमाख्यातमित्युक्तम् । तैः कै: ? यैराचार्यैरयं साधुधर्मःसाध्वाचारः, अथवा सम्यग्धर्मः प्रज्ञप्तः कथितः, इतीति किं ? जीवः प्राणिवधं - जीवस्य हिंसामनुजानन्ननुमोदयन् 'हु' इति निश्चये कदापि सर्वदुःखेभ्यो न मुच्येत । अत्र प्राणिवधस्यानुमोदनायास्त्यागात्करणकारणयोरपि त्याग उक्तः । प्राणिवधकरणकारणाऽनुमतित्यागाच्च मृषावादाऽदत्तादान - मैथुन- परिग्रहादीनामपि करणकारणानुमतस्यापि निषेधो ज्ञेयः ॥ ८ ॥
पाणे य नाइवाइज्जा, से समीइत्ति वुच्चई ताई ।
तओ से पावयं कम्मं, निज्जाइ उदगंव थलाओ ॥ ९ ॥
यः साधुः प्राणान् जीवान्नातिपातयेन्न विनाशयेत् स्वयं न हिंस्यात्, चशब्दात्प्राणहिंसायाः कारणानुमत्योरपि निषेध उक्तः । स त्राता जीवरक्षाकारी साधुः समित उच्यते । ' से ' इत्यथानन्तरं सर्वजीवरक्षणादनन्तरं, ततस्तस्मात्समितात्समितिगुणयुक्तात्साधोः पापकं कर्म-अशुभं कर्म निर्याति-निर्गच्छति । कस्मात्कमिव ? स्थलादुन्नतभूतलादुदकं - पानीयं निर्गच्छति, उन्नतभूतले यथोदकं न तिष्ठति, तथा समिते साधौ पापकं न तिष्ठतीत्यर्थः ॥ ९ ॥