________________
१२२]
[ उत्तराध्ययनसूत्रे
तो नाणदंसणसमग्गो, हियनिस्सेसाय सव्वजीवाणं । तेसिं विमोक्खणट्ठाए, भासई मुनिवरो विगयमोहो ॥ ३ ॥
ततोऽनन्तरं मुनिवरः कपिलः केवली सर्वजीवानां हितनिःश्रेयसाय भाषते । हितं पथ्यसदृशम्, यन्नितरामतिशयेन श्रेयः- कल्याणं हितनिःश्रेयसस्तस्मै हितनिःश्रेयसाय । किमर्थं भाषते ? तेषां चौराणां विमोक्षणार्थम् स्वयं तु कपिलो विमुक्त एवास्ति । अथ च तेषां चौराणां मोक्षणार्थमाहेत्यर्थः । कथम्भूतो मुनिवरः ? विगतमोहो - मोहरहितः कीदृशो मुनिवरः ? ज्ञान- दर्शनसमग्रो ज्ञान दर्शनाभ्यां पूर्णः ॥ ३ ॥
-
किं भाषत इत्याह
सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ॥ ४ ॥
-
भिक्षुः- साधुस्तथाविधं पूर्वोक्तं कर्मबन्धहेतुं सर्वग्रन्थं बाह्याभ्यन्तरभेदेन द्विविधं परिग्रहं विशेषेण प्रजह्यात्परित्यजेत् । च पुनर्भिक्षुः कलहं क्रोधम्, चकारान्मान-मायालोभादीन् विप्रजह्यात् । पुनः साधुः सर्वेषु कामजातेष्विन्द्रियविषयेषु न लिप्यते - नासक्तो भवेत् । किं कुर्वन् ? पश्यन् विषयविपाकं चिन्तयन्नित्यर्थः । पुनः कीदृशः साधुः ? ' ताई ' त्रायी - सर्वजीवानामभयदानदायीत्यर्थः ॥ ४॥
भोगामिसदोसविसण्णे, हियनिस्सेयसबुद्धिवुच्चत्थे ।
बाले य मंदिए मूढे, बज्झइ मच्छियाव खेलंमि ॥ ५ ॥
"
एतादृशो बालोऽज्ञानी कर्मणा बध्यते, कर्मणा बद्धश्च संसारान्निर्गन्तुं न शक्नोति, संसार एव सीदनि । कस्मिन् क इव ? खेले - श्लेष्मणि मक्षिका-जन्तुरिव, कथम्भूतो ? बालो जनः, मन्दो धर्मक्रियायामलसः, पुनः कीदृश: ? मूढो मोहव्याकुलमनाः, पुनः कीदृश ? विषयामिषदोषविषण्णः, विषया एव गृद्धिहेतुत्वादामिषं विषयामिषम्, तदेव दोषो जीवस्य दूषणकरणत्वाद्विषयामिषदोषस्तत्र विशेषेण सन्नो- निमग्नो विषयामिषदोषविषण्णः । पुनः कीदृश: ? हितनिःश्रेयसबुद्धिपर्यस्तः, हितमात्मसुखम्, निःश्रेयसो मोक्षः, हितं च निःश्रेयसश्च हितनिःश्रेयसौ, तयोर्विषये या बुद्धिर्हितनिःश्रेयसबुद्धिस्तस्याः सकाशाद्विशेषेण पर्यस्तः- पराङ्मुखो हितनिःश्रेयसबुद्धिविपर्यस्तः स्वर्गापवर्गसुखाद्भ्रष्ट इत्यर्थः ॥ ५ ॥
दुपरिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं ।
अह संति सुव्वया साहु, जे तरंति अतरं वणिया वा ॥ ६ ॥
इमे प्रसिद्धाः कामा अधीरपुरुषैर्न सुजहा:-न सुखेन हातुं योग्या इत्यर्थः, मिष्टान्नादिभोजनवत् । अत एव कीदृशा इमे कामाः ? दुष्परित्यजा: । अथ केचित्सुव्रताः साधवः सन्ति येऽतरं- तरीतुमशक्यं संसारं तरन्ति । के इव ? वणिज इव, यथा वणिजः सामुद्रिका व्यापारिणोऽतरं महासमुदं प्रवहणैस्तरन्ति, अत्र वाशब्दो हीवार्थे ॥ ६ ॥