________________
अथाष्टमं कापिलीयाख्यमध्ययनम् ८]
[१२१ आभरणानि न जायन्ते, ततोऽहं लक्षं मार्गयामि, तदापि मम जात्यतुरङ्गमोत्तमगजेन्द्रप्रवररथादिसामग्री न जायते, ततः कोटिं मार्गयामीति चिन्तयन्नेव स्वयं संवेगमागतः ।सुवर्णमाषद्वयार्थ निर्गतस्यापि मम कोट्यापि तुष्टिर्न जातेति धिगिमां तृष्णामिति विचार्य स्वमस्तके लोचं कृतवान् ।शासनदेवतया तस्य रजोहरणादिलिङ्गमर्पितम् । कपिलो द्रव्य-भावाभ्यां यतिर्भूत्वा राज्ञः पुरः समागतः, राज्ञा भणितं-त्वया विचारितं किं ? स आह
जहा लाहो तहा लोहो, लाहा लोहो पवड्डई । दोमासकयंकज्जं, कोडिएवि न निट्ठियं ॥ १ ॥ [ उत्त. ८/३७] इति विचार्याहं त्यक्ततृष्णः संयमी जातः । राज्ञोक्तं-कोटिमपि तवाहं ददामि । तेनोक्तं सर्वोऽपि परिग्रहो मया व्युत्सृष्टः । न मे कोट्यापि कार्यमित्युक्त्वा स श्रमणस्ततो विहृतः षण्मासान् यावच्छद्मस्थ एवासीत्, पश्चात्केवली जातः । इतश्च राजगृहनगरान्तरालमार्गे बलभद्रप्रमुखाश्चौराः सन्ति । एतेषां प्रतिबोधो मत्तो भविष्यतीति ज्ञात्वा स कपिलकेवली गतः । तैदृष्टः प्रोक्तश्च-भोः श्रमण ! नृत्यं कुरु। केवली प्राह-वादकः कोऽपि नास्ति । ततस्ते पञ्चशतचौरास्तालानि कुट्टयन्ति, कपिलकेवली च गायति, तद्गीतवृत्तमाह
अधुवे असासयंमि, संसारंमि दुक्खपउराए । किं नाम हुज्जतं कम्मयं, जेणाहं दुग्गइं न गच्छिज्जा ॥१॥
भो जनाः ! अस्मिन् संसारे तत्कर्मकं किं नाम किं सम्भाव्यते ? तत्कि कर्म वर्तते ? तत्कि क्रियानुष्ठानं वर्तते ? येन कर्मणाहं दुर्गतिं न गच्छेयम् । केवलिनः संशयस्य दुर्गतिगमनस्य चोभयोरभावेऽपि प्रतिबोधापेक्षयेति केवली भगवानिदमाह । कथम्भूते संसारे ? अधुवे, 'नवनवस्थानकनिवाससद्धावादस्थिरे, पुनः कीदृशे संसारे ? अशाश्वतेऽनित्ये, पुनः कीदृशे संसारे ? दुःखप्रचुरे - दुःखैः - शारीरिक-मानसिककष्टैः प्रचुरेपूर्णे जन्मजरामृत्युसहिते ॥१॥
विजहित्तु पुव्वसंजोगं, न सिणेहं कहंचि कुव्विज्जा । असिणेह सिणेहकरेहि, दोसपओसेहिं पमुच्चए भिक्खू ॥२॥
भिक्षुः साधुः कथञ्चित्क्वचिद्बाह्याऽभ्यन्तरे वस्तुनि स्नेहं न कुर्यात् । किं कृत्वा ? पूर्वसंयोगं 'विजहित्तु' विहाय, कथम्भूतो भिक्षुः ? स्नेहकरैः, सस्नेहाः स्नेहं कुर्वन्तीति स्नेहकरास्तैः पुत्र-कलत्रादिभिरस्नेहो वीतरागः । अथवा स्नेहकरेष्वस्नेहः, सप्तमीस्थाने तृतीया । पुनः स भिक्षुर्दोषप्रदोषैः प्रमुच्यते, दोषाश्च प्रदोषाश्च दोषप्रदोषास्तैर्दोषप्रदोषैः प्रमुक्तो भवति, प्रकर्षेण रहितो भवति, दोषैर्मनस्तापादिभिः, प्रदोषैः प्रकृष्टदोषैः, परभवे नरकदुःखै रहितो भवति ॥२॥ १ भवभव-मु.॥