________________
॥अथाष्टमं कापिलीयाख्यमध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने विषयत्याग उक्तः, स च निर्लोभस्यैव भवति, ततोऽष्टममध्ययनं कपिलस्य महामुनेदृष्टान्तगर्भितं निर्लोभत्वदृढीकरणं कथ्यते । पूर्वं कः कपिलः ? कथं च स मुनिर्जातः ? अतस्तदुत्पत्तिरुच्यते
कौशाम्ब्यां नगर्यां जितशत्रुराजा राज्यं करोति स्म । तत्र काश्यपो ब्राह्मणः, स चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीवसम्मतः, तस्य राज्ञा महती वृत्तिर्दत्ता, काश्यपब्राह्मणस्य यशानाम्नी भार्या वर्तते, तयोः पुत्रः कपिलनामास्ति । तस्मिन् कपिले बाल एव सति काश्यपो ब्राह्मणः कालं गतः । तदधिकारो राज्ञान्यस्मै ब्राह्मणाय दत्तः, सोऽश्वारूढच्छत्रेण ध्रियमाणेन नगरान्तर्वजति । एकदा तं तथा व्रजन्तं दृष्ट्वा यशा भृशं रुरोद । कपिलेन पृष्टं-मातः किं रोदिषि ? सा प्राह-वत्स ! तव पितेदृश्या ऋद्ध्या पुरान्तर्भमन्नभूत् । मृते च तव पितरि, त्वयि चाविदुषि सत्ययं तव पैत्र्यं पदं प्राप्तस्ततो रोदिमि । कपिल ऊचेऽहं भणामि । यशा प्राह-हे पुत्र ! अत्र तव न कोऽप्येतद्भीत्या पाठयिष्यति, इतस्त्वं श्रावस्त्यां व्रज । तत्र त्वपितृमित्र इन्द्रदत्तो ब्राह्मणस्त्वां पाठयिष्यति । ततः कपिलः श्रावस्त्यां तत्समीपं गतः । तेन पृष्टं-कस्त्वं ? कुत आयातः ? कपिलेन सर्वं स्वस्वरूपमूचे । तेन मित्रपुत्रत्वात्सविशेषं पाठ्यते । परं स्वगृहे भोजनं तस्य कारयितुं न शक्यते।
ततोऽनेन शालिभदनामा तत्रत्यो व्यवहारी प्रार्थितो, यथास्य त्वया निरन्तरं भोज्यं देयम् । त्वत्प्रसादानिश्चिन्तोऽसौ पठिष्यति । तेनापि तत्प्रतिपन्नम्, कपिलः शालिभद्रगृहे प्रत्यहं भुङ्क्ते, इन्द्रदत्तगुरुसमीपे चाध्येति । शालिभद्रगृहे चैका दासी वर्तते । दैवयोगात्तस्यामसौ रक्तोऽभूत् । अन्यदा सा गर्भिणी जाता । सा कपिलं प्रत्याहाहं तव पत्नी जाता। ममोदरे त्वद्गर्भो जातोऽतस्त्वया मे भरणपोषणादि कार्यम् । कपिलस्तद्वचः श्रवणाद् भृशं खिन्नः- परमामधृतिं प्राप, न च तस्यां रात्रौ निद्रां प्राप । पुनस्तया भणितम्-स्वामिन् ! खेदं मा कुर्याः । मदुक्तमेकमुपायं श्रृणु।
__ अत्र धननामा श्रेष्ठी वर्तते । तस्य यः प्रथमं प्रभाते गत्वा वर्धापयति तस्य स सुवर्णमाषद्वयं ददाति । ततस्त्वमद्य प्रभाते गत्वा प्रथम वर्धापय, यथा सुवर्णमाषद्वयं प्राप्नुयाः । कपिलस्तस्या वचः श्रुत्वा मध्यरात्रावुत्थितः, तस्य धाम्न्यपरः कश्चिन्मा प्रथम यायादिति मत्वौत्सौक्येन गच्छन् कपिलः पुरारक्षकैर्गृहीतः, चौरधिया बद्धः, प्रभाते पुरस्वामिनः पुरो नीतः । पुरस्वामिना पृष्टं-कस्त्वं ? किमर्थमर्धरात्रौ निर्गतः ? तेन सकलं स्वरूपं प्रकटीकृतम् सत्यवादित्वात्तस्य तुष्टो राजा प्राह-यत्त्वं मार्गयसि तदहं ददामि, सा प्राह-विमृश्य मार्गयामि । राजा प्राह-याह्यशोकवनिकायां, विचारय स्वेष्टं ।
कपिलस्तत्र गत इति चिन्तयितुमारब्धवान् । चेदहं सुवर्णमाषद्वयं मार्गयामि, तदा तस्या दास्याः शाटिकामानं जायते, न त्वाभरणानि । ततः सहस्रं मार्गयामि तदापि तस्या