________________
सप्तममौरभ्रीयाख्यमध्ययनम् ७ ]
[ ११९
स निर्विषयी कामान्निवृत्तो जीवस्तत्र मनुष्येषु भूयो वारंवारमुत्पद्यते, तत्र कुत्र ? यत्र मनुष्येषु ऋद्धिः स्वर्ण-रूप्य - रत्न माणिक्यादिका भवन्ति, यत्र द्युतिर्देहस्य कान्तिर्भवति, पुनर्यत्र यशो भवति, पराक्रमादुत्पन्नधर्मविशेषरूपं यश उच्यते, पुनर्यत्र वर्णो गाम्भीर्यादिगुणैर्वर्णनम् वर्णः श्लाघा, अथवा वर्णशब्देन गौरत्वादिगुणो वा, पुनर्यत्रायुः सम्पूर्णं प्रचुरं च भवति, पुनर्यत्र सुखं भवति, एतेषां सर्वेषामनुत्तरपदेन विशेषणं कर्त्तव्यम्, अनुत्तरं - सर्वोत्कृष्टं देवभवापेक्षयेतद्वक्तव्यम् ॥ २७ ॥
बालस्स पस्स बालत्तं, अहम्मं पडिवज्जिया ।
चिच्चा धम्मं अहम्मिट्ठे, नरएसु उववज्जई ॥ २८ ॥
हे शिष्य ! त्वं बालस्य हिताहितज्ञानरहितस्य बालत्वं मूर्खत्वं पश्य । स अधर्मिष्ठो बालो धर्मं त्यक्त्वाऽधर्मं प्रतिपद्य नरके उत्पद्यते ॥ २८ ॥
-
-
धीरस्स पस्स धीरतं, सव्वधम्माणुवत्तिणो ।
चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववज्जई ॥ २९ ॥
हे शिष्य ! धीरस्य - पण्डितस्य धीरत्वं पश्य-त्वं विचारय । धिया राजत इति धीरः,
धियं बुद्धि राति ददातीति धीरः । तस्य कीदृशस्य धीरस्य ? सर्व धर्मानुवर्तिनः सर्वे ये क्षान्त्यादयो धर्मास्ताननुवर्तितुमनुकूलत्वेन चरितुं शीलं यस्य स सर्वधर्मानुवर्ती, तस्य क्षान्त्यादिदशविधधर्मधारकस्य, कीदृशं धीरत्वं तदाह-स धर्मिष्ठो धीरोऽधर्मं त्यक्त्वा देवेषूत्पद्यते ॥ २९ ॥
तुलिया ण बालभावं, अबालं चेव पंडिए ।
चइउण बालभावं, अबालं सेवइ मुणि ॥ ३० ॥ त्ति बेमि ॥
मुनिस्तीर्थङ्करादेशकारी साधुरेवममुना प्रकारेण बालस्य बालभावम्, च पुनः पण्डितस्याबालं पण्डितत्वम्, 'तुलिया' इति तोलयित्वा णकारो वाक्यालङ्कारे, पश्चात्पण्डितस्तत्वज्ञः पुमान् बालभावं - मूर्खत्वं त्यक्त्वाऽबालं - पण्डितत्वं सेवयेत्, अङ्गीकुर्यादित्यर्थः इत्यहं ब्रवीमि सुधर्मा स्वामी जम्बूस्वामिनं प्रत्याह ॥ ३० ॥
इत्यौरभ्रीयाख्यं सप्तममध्ययनं सम्पूर्णम् ॥ ७ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सप्तमाध्ययनस्यार्थः सम्पूर्णः ॥