________________
११८]
[उत्तराध्ययनसूत्रे ____ पण्डितः पुमान् ‘एलिक्खं' ईदृक्षं 'जिच्चं' इति जेयं-जेतव्यं देवगति-मनुष्यगतिरूपम्, जीयमान-इन्द्रियविषयैर्हार्यमाणः, कथं नु' न संविदेत् ? - कथं न जानीत ? अपि तु पण्डितो ज्ञपरिज्ञयैवं जानीतैव । किं कृत्वा ? एवममुना प्रकारेणादैन्यवन्त - सन्तुष्टिभाज भिक्षु-साधुम्, च पुनरगारिणं-गृहस्थं 'वियाणिया' विशेषेण देवगतिमनुष्यगतित्वागामित्वलक्षणेन ज्ञात्वा, तस्मात्पण्डितो धर्ममार्गे सावधानो भवेदित्यर्थः ॥ २२ ॥
जहा कुसग्गे उदयं, समुद्देण समं मिणे ।
एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥ यथा कुशाग्रे उदकं समुद्रेण समं मन्यते, एवं मानुष्यकाः कामा देवकामानामन्तिके -समीपे ज्ञेयाः ॥२३॥
कुसग्गमित्ता इमे कामा, संनिरुद्धंमि आउए।
कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ॥२४॥ संनिरुद्धे-संक्षिप्ते आयुषीमे प्रत्यक्षा मनुष्यसम्बन्धिनः कामाः कुशाग्रमात्राः सन्तीत्यध्याहारः । एवं सत्यपि जनः कस्य हेतुं पुरस्कृत्य कं हेतुं - किंकारणमाश्रित्य योगं च पुनः क्षेमं न संविदे-न संवित्ते, योगं क्षेमं च कथं न जानातीत्याश्चर्यमित्यर्थः ॥२४॥
इह कामाणियट्टस्स, अत्तढे अवरज्झई ।
सुच्चा नेआउयं मग्गं, जं भुज्जो परिभस्सई ॥२५॥ इहेत्यत्र दृष्टान्तपञ्चके क्रमात्-अपायबहुलत्वम् १, तुच्छत्वम् २, आयव्ययतो लाभम् ३, हारणम् ४, समुद्रजलदृष्टान्तं च ५, ज्ञात्वेह नरभवे कश्चिद् गुरुकर्मा जीवस्तस्य कामागोगसुखादनिवृत्तस्य, आत्मार्थो मोक्षोऽपराध्यति-नश्यति, विषयिणो जीवस्य मोक्षो न भवतीत्यर्थः । अत्र हेतुमाह-'जं' इति यस्मात्कारणात्स गुरुकर्मा जीवो नैयायिकं मार्गमोक्षमार्ग श्रुत्वा भूयो-वारंवारं परिभ्रश्यति, संसारगर्तायां पततीत्यर्थः ॥ २५ ॥
इह कामणियट्टस्स, अत्तट्टे नावरज्झई ।
पूइदेहनिरोहेण, भवे देवित्ति मे सुयं ॥ २६ ॥ हे शिष्य ! 'मे' मयेति श्रुतम्, इतीति किं ? इहास्मिन्नरभवे कामानिवृत्तस्य जीवस्य लघुकर्मण, आत्मार्थो-मोक्षो न नश्यति, स च पुमान् पूतिदेहनिरोधेनौदारिकदेहत्यागेन शतन-पतन-विध्वंसनधर्मात्मकपिण्डाभावेन देवो भवेद्देवशरीरं प्राप्नुयात् ॥ २६ ॥
इड्डी जुइ जसो वण्णो, आउयं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववज्जइ ॥२७॥