SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सप्तममौरभ्रीयाख्यमध्ययनम् ७] [११७ तओ जिए सया होई, दुव्विहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥१८॥ ततो देवत्व-मनुष्यत्वजयाद्देवगति-मनुष्यगतिहारणात्स मूर्खः सकृद्वारंवारंदुर्गतिं गतो भवतीत्यध्याहारः। तस्य बालस्य सुचिरादपि अद्धाए' - प्रभूतेऽप्यागामिनि काले उमग्गा' उन्मज्जनमुन्मज्जा तस्या दुर्गतेः सकाशानिःसृतिः 'दुल्लहा' दुर्लभा भवति, निःसरणं दुष्कर भवेदित्यर्थः ॥१८॥ एवं जिए संपेहाए, तुल्लिया बालं च पंडियं ।। मूलियं ते पवेसंति, माणुसं जोणिमिति जे ॥ १९ ॥ एवममुना प्रकारेण बालं-मूर्ख जितं सम्प्रेक्ष्यालोच्य, च - पुनर्बालं-मूर्खम्, पुनः पण्डितं-तत्वज्ञं तुलित्वा-तोलयित्वेति विचारणीयम् । इतीति किं ? ते मनुष्या मूलियंमौलिक-मूले भवं मौलिकं मूलद्रव्यं प्रविशन्ति-लभन्ते । ते के ? ये मनुष्या मानुषं योनिमेन्तिप्राप्नुवन्ति ते मूलरक्षकव्यवहारितुल्या ज्ञेयाः ॥१९॥ मानुषं योनि के व्रजन्ति तदाह - वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया । उविंति माणुसी जोणि, कम्मसच्चा हु पाणिणो ॥२०॥ ये नरा विमात्राभिर्विविधप्रकाराभिः शिक्षाभिहिसुव्रता भवन्ति, गृहिणश्च ते सुव्रताश्च गृहिसुव्रता - गृहीतसम्यक्त्वादिगृहस्थद्वादशव्रताः । ते प्राणिनस्ते जीवा 'हु' इति निश्चयेन मानुषं योनिमुत्पद्यन्ते । कीदृशास्ते ? सत्यकर्माण:- सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः कर्मसत्याः, प्राकृतत्वात्कर्मशब्दस्य प्राग्निपातः ॥२०॥ जेसिं तु विउला सिक्खा, मूलियं ते अइत्थिया। सीलवंता सविसेसा, अदीणा जंति देवयं ॥२१॥ तुरेवार्थे , येषां जीवानां विपुला-विस्तीर्णा शिक्षा ग्रहणा-ऽऽसेवनादिकास्ति ते जीवा मूलकमिव नृभवत्वमतिक्रान्ताः सन्तो देवत्वं यान्ति-प्राप्नुवन्ति । किम्भूतास्ते जीवाः ? शीलवन्तः-सदाचाराः, पुनः कथम्भूतास्ते ? सविशेषाः, सह विशेषणेनोत्तरगुणेन वर्तन्त इति सविशेषाः, पुनः कीदृशाः ? अत एवादीनाः, न दीनाः सन्तोषभाज इत्यर्थः ॥२१॥ एवं अदीणवं भिक्खें, अगारिं च वियाणिया । कहं नु जिच्चमेलिक्खं, जिच्चमाणो न संविदे ॥ २२ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy