________________
११६]
[उत्तराध्ययनसूत्रे प्रज्ञावतः क्रियासहितज्ञानयुक्तस्य या स्थितिर्विद्यते, सा भवतामस्माकं च प्रतीतास्ति, तत्र स्थितौ यान्यनेकवर्षनयुतानि, अनेकान्यसङ्खयेयानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि अर्थाद्यानि पल्योपमसागराणि भवन्ति, अत्र प्राकृतत्वादनेकवर्षनयुता इति पुल्लिङ्गनिर्देशः कृतः । अथवा यत्र देवस्थितावनेकवर्षनयुता यानीति ये कामा भवन्ति तानि सर्वाणि पल्योपमसागराणि, तत्प्रमाणान्यायूंषि दिव्यस्थितिविषयभूतानि, दुर्मेधसोदुर्बुद्धयः पुरुषा ऊने वर्षशतायुषि महावीरस्वामिवारके मनुष्यविषयैर्जीयन्ते-हार्यन्ते, दैवयोनियोग्यायुःकामसुखरहिताः क्रियन्ते, तुच्छमनुष्यसुखलब्धा मूर्खा देवस्थितिसुखहीना भवन्ति, अत एव दुर्मेधस इत्युक्तम्, दुर्दुष्टा मेधा येषां ते दुर्मेधस इति ॥ १३ ॥ अथ द्वाभ्यां गाथाभ्यां व्यवहारोपमामाह- .
जहा य तिन्नि वणिया, मूलं चित्तूण निग्गया। एगुत्थ लहए लाभं, एगो मूलेण आगओ ॥१४॥ एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ।
ववहारे उवमा एसा, एवं धम्मे वियाणह ॥१५॥ यथा च त्रयो वणिजः कस्माच्चिद्व्यापारिणः समीपान्मूलं नीवीदव्यं गृहीत्वा स्वकीयनगरादपरनगरे गताः । अत्र त्रिषु वणिग्जनेष्वेको लाभं लभते, एको मूलेन नीवीद्रव्येण सह समागतः, एको मूलं द्रव्यमपि हारयित्वा द्युत-मद्य-परस्त्री-वेश्यासेवनादिकुव्यापारैर्गमयित्वा स्वगृहमागतः । एषा व्यवहारे उपमास्ति, एषैवोपमा धर्मेऽपि यूयं जानीथेत्यर्थः ॥१५॥
माणुसत्तं भवे मूलं, लाभो देवगई भवे ।
मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ मनुष्यो मृत्वा मनुष्य एव भवेत्, तदा मनुष्यत्वं मूलद्रव्यसदृशं ज्ञेयम्, यो मनुष्यभवाच्च्युत्वा देवो भवेत्तदा देवत्वं लाभतुल्यं ज्ञेयम्, यत्पुनर्मनुष्याणां नरकतिर्यक्त्वप्राप्तिर्भवेत्तदा मूलच्छेदेन ध्रुवं-निश्चितं दुर्भाग्यत्वं ज्ञेयम् ॥१६॥
दुहओ गई बालस्स, आवईवहमूलिया ।
देवत्तं माणुसत्तं च, जं ज़िए लोलया सढे ॥१७॥ बालस्य-मूर्खस्य द्विधा गतिर्भवेत्, कथम्भूता गतिः ? आवईवहमूलिया' आपद्वधमूलिकाः, आपदो-विपदो, वधस्ताडनादिः, आपदश्च वधश्चापद्वधौ, तौ मूलं यस्याः सापद्वधमूलिका । 'जं' इति यस्मात्कारणात्स बालो-मूतॊ देवत्वं मानुषत्वं च हारितः, कीदृशः सन् ? लोलया-लाम्पट्येन जितः, पुनः कीदृशः ? शठो-धूर्तः ॥१७॥