________________
सप्तममौरभ्रीयाख्यमध्ययनम् ७ ]
अथ काकिन्याम्र- दृष्टान्तमाह
जहा कागणि हे, सहस्सं ह
नरो ।
अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ॥। ११ ॥
यथा कश्चिन्नरः काकिण्या हेतोः सहस्रं टङ्कानां सहस्रं हारयेत् काकिणी तु रूपकद्रव्य-स्याशीतितमो भागस्तदर्थं कश्चित्कृपणः टङ्कानां दीनाराणां सहस्त्रं पातयेत्; सोऽतीव-मूर्खशिरोमणिः । अत्र मनुष्य भोगसुखस्य तुच्छत्वेन कपर्दिकादृष्टान्तः । 'तु' पुनः, कश्चिदा-जाऽपथ्यमाम्रफलं भुक्त्वा राज्यं हारितवान् हारयेद्वा । अत्र भोगसुखस्य तुच्छत्वोपरि काकिण्याप्रदृष्टान्तद्वयोदाहरणे दर्श्यते
-
[ ११५
एकेन केनापि दमकेण वृत्तिं कुर्वता महोपक्रमेण कार्षापणसहस्त्रमर्जितम् स तद्वासनिकां कटौ बद्ध्वा सार्थेन समं गृहं प्रस्थितः । मार्गे भोजनार्थं चैकं रूपकमशीतिकाकिणीभिर्भित्वा दिने दिने एकया काकिण्या भुङ्क्ते । एवं मार्गे तेनैकोनाशीतिकाकिण्यो भक्षिताः । एका काकिण्यवशिष्टास्ति सा च सद्यः सार्थे चलिते विस्मृता । अग्रे गच्छतस्तस्य सा स्मृतिपथमागता । एवं च तेन चिन्तितमेकदिने भोजनार्थं मे रूपकभेदः कर्तव्यो भविष्यतीति क्वचिद्वासनिकां सङ्गोप्य पश्चान्निवृत्तः । तत्र सा काकिणी केनचिद् हृता, यावच्च वासनिकास्थाने पुनरायाति तावत्सापि केनचिद् हृता, ततोऽसावुभयभ्रष्टो गृहं गतः शोचति । अथाम्रदृष्टान्तो दर्श्यते -
कस्यचिद्राज्ञ आम्रजीर्णेन विसूचिकाभूत्, वैद्यैर्महतोपक्रमेण तामपनीयोक्तंचेदाम्राणि पुनस्त्वं खादसि तदा विनश्यसि । ततस्तेन राज्ञा स्वदेशे आम्रा उत्खातिताः । अन्यदा स राजाश्वापहृतो दूरतरवने गतः, तत्राम्रवृक्षच्छायायामुपविष्टः । पक्वान्याम्राणि दृष्ट्वा चलचित्तो मन्त्रिणा वार्यमाणोऽपि भक्षितवान् । तदानीमेव स मृतः, एवं काकिण्यानसदृशमनुष्यकामासेवनतो बालनरेण देवकामा हार्यन्ते इति परमार्थः ॥ ११ ॥
एवं माणुस्सगा कामा, देवकामाणं अंतिए । सहस्सगुणिआ भुज्जो, आउं कामाय दिव्विया ॥ १२ ॥
एवममुना प्रकारेण काकिण्याम्रदृष्टान्तेन काकिण्यानसदृशा मानुष्यकाः कामा देवसुखानामन्तिके - देवसुखानां समीपे ज्ञेयाः । इहच दिव्यकामानामतिभूयस्त्वेन कार्षापणसहस्त्रराज्यतुल्यता सूचिता । मनुष्यकामा हिदेवकामानामग्रे भूयो - वारंवारं सहस्त्रगुणिताःसहस्त्रैस्ताडिताः । 'दिव्विया' इति दिव्यका- देवसम्बन्धिनः कामाः - शब्दादयो ज्ञेयाः । आयुर्जीवितमपि देवसम्बन्धिसहस्रगुणितं ज्ञेयम्, दिव्यकाः कामाश्च यथा मनुष्यकामानामग्रे वारंवारं सहस्त्रगुणितास्तथायुरपि मनुष्यायुर्देवायुषोरन्तरं ज्ञेयम् ॥ १२ ॥
अणेगवासानउया, जा सा पन्नवओ ठिई ।
जाणि जीयंति दुम्मेहा, ऊणे वाससयाऊए ॥ १३ ॥