________________
११४]
[उत्तराध्ययनसूत्रे मांसंच भुञ्जानः, पुनः कीदृशः? परिवूढ-उपचितमांसत्वेन स्थूलः, पुनः कीदृशः ? परन्दमः, परमन्यं जीवं दमतीति परन्दमः-परपीडाकारकः, आत्मार्थं परजीवोपघातक इत्यर्थः ॥६॥
पुनः कीदृशः ? अजकर्करभोजी, अजस्य-छागादेः कर्करमतिभ्रष्टं यच्चणकवद्भुज्यमानं कर्करायते तन्मेदो दन्तुरं पक्वं शूलाकृतं मांसं तद्भुङ्क्ते, इत्येवंशीलोऽजकर्करभोजी, पुनस्तुन्दमस्यास्तीति तुन्दिलो-यथेप्सितभोजनेन वर्धितोदरः । अत एव चितशोणितो-वर्धितरुधिरः, रुधिरवृद्धयान्येषामपि धातूनां वृद्धिदृह्यते ॥७॥पूर्व हिंसे बाले' इत्यादिनारम्भोक्तिः कथिता भुंजमाणे सुरं मांस' इत्यनेन दुर्गतिगमनभणनात्कष्टोत्पत्तिः कथिता। अथ गाथाद्वयेन साक्षादिहैव कष्टं कथयति
आसणं सयणंजाणं, वित्तं कामे अभुंजिआ। दुस्साहडं धणं हिच्चा, बहुसंचिणिया रयं ॥८॥ तओ कम्मगुरूजंतू, पच्चुपन्नपरायणे ।
अयव्व आगयाएसे, मरणंतंमि सोयए ॥९॥ ततस्तदनन्तरं प्रत्युत्पन्नपरायणः, प्रत्युपन्ने - प्रत्यक्षभुज्यमानविषयसुखे परायणः प्रत्युत्पन्नपरायणः, परलोकसुखनास्तिकवादी जनो मरणान्ते - मरणस्यान्तः सामीप्यं मरणान्तस्तस्मिन् मरणान्ते-मरणे समागते सति शोचते - शोकं कुरुते इति सम्बन्धः । तत इति कुतः ? पूर्वं किं कृत्वेत्याह-आसनं-सुखासनादिकम्, शयनं-खट्वा-छप्परादिकम्, हिण्डोल-खट्वादिकम्, यानं-गड्डिकादिकम्, वित्तं-द्रव्यम्, कामान् - विषयान् भुङ्कत्वा, दुःखाहृतम्, दुःखेनाहियत इति दुःखाहृतं-दुःखोत्पाद्यं धनं त्यक्त्वा, पुनर्बहु-प्रचुरंरजःपातकं 'संचिणिया' सञ्चित्य-समुपायं, एतावता बहुभिः परिग्रहैः पातकमुपाया॑युषोऽन्ते स आरम्भीजीवः शोचते।कथम्भूतः सः? जन्तुः कर्मगुरुः, कर्मभिर्गुरुः कर्मगुरुः,गुरुकर्मा । सक इव शोचते ? अज इव यथा पूर्वोक्तोऽज आदेशे-प्राघूर्णके आगते सति शोचते, तथा स महारम्भी परिग्रही विषयी जीवो मरणसमये शोचत इत्यर्थः ॥९॥ पुनस्तदेव दृढयति
तओ आउपरिक्खीणे, चुआ देहा विहिंसगा।
आसुरीयं दिसं बाला, गच्छन्ति अवसा तमं ॥१०॥ तत आयुषि परिक्षीणे सति ते विहिंसका-विशेषेण हिंसाकारका नरा देहाच्च्युता मनुष्यशरीराद्धृष्टाः सन्त आसुरीयं दिशं गच्छन्ति । कीदृशास्ते ? बाला:-मूर्खा असुराणां रौदाणां रुद्रकर्मकारिणामियं भावदिशा आसुरी, ताम्, पुनः कीदृशास्ते ? अवशा:-परवशा इन्द्रियवशवर्तिनो वा, कीदृशीमासुरी दिशं ? 'तमं' इति तमोऽन्धकारंतद्युक्तत्वात्, तमःस्तोममयीं नरकगतिमिति भावः ॥१०॥ इति प्रथम एलकस्य दृष्टान्तः ।