________________
सप्तममौरभ्रीयाख्यमध्ययनम् ७ ]
जाव न एइ आएसे, ताव जीवइ से दुही ।
अह पत्तंमि आएसे, सीसं छित्तूण भुंजई ॥ ३॥
स उरभ्रस्तावज्जीवति प्राणान् धारयति । कीदृशः सः ? दुःखी, दुःखमस्य भावीति दुःखी, भाविनि भूतोपचारात् । यद्यपि वर्तमानकाले तस्य सुखमस्ति तथापि दुःखस्यागामित्वाद् दुःख्युच्यते । तावदिति किं ? यावदादेश:- प्राघूर्णको नैति - नागच्छति । अथादेशे प्राप्ते सति शीर्षं छित्वा स उरभ्र आदेशेन समं स्वामिनापि भुज्यते ॥ ३ ॥ जहा से खलु उरब्भे, आएसाए समीहिए ।
एवं बाले अहम्मिट्ठे, ईहइ नरयाउयं ॥ ४ ॥
यथा स उरभ्र आदेशाय समीहितः कल्पितः, एवमिति तथा बालः कार्या कार्यविचाररहितोऽधर्मिष्ठो नरकायुरीहते, नरकगतियोग्यकर्मकरणेन नरकाय कल्पित इत्यर्थः ॥ ४ ॥ तिसृभिर्गाथाभिः पूर्वोक्तमेव दृढयति -
हिंसे बाले मुसावाई, अद्धाणम्मि विलोव । अन्नदत्तहरे तेणे, माई कन्नुहरे सढे ॥ ५ ॥ इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥ ६॥
[ ११३
अयकक्करभोई य, तुंदिल्ले चिय सोणिए ।
आऊयं नरए कंखे, जहा एसं व एलए ॥ ७ ॥
एतादृशो नरो नारके इति नरकगतौ नरकायुरर्थान्नरकस्यायुः काङ्क्षति, नरकगतियोग्यकर्माचरणात्स नरो नरकगतिमेव वाञ्छति, नरकाय कल्पितः । कः कमिव ? एलकःपूर्वोक्त उरभ्र आदेशमिव यथा केनचित्पापेन यथेप्सितभोजनेन पोषित उरभ्र आदेशमिच्छति । कीदृशः सः ? हिंस्त्रो - हिंसनशीलः, पुनः कीदृश: ? बालोऽज्ञानी, पुनः कीदृश: ? मृषावादी, पुनः कीदृक् ? अध्वनि विलोपको 'जिनमार्गलोपकः, पुनः कीदृक् ? अन्यादत्तहरः, अन्येषामदत्तं हरतीत्यन्यादत्तहरः, अदत्तादानसेवीत्यर्थः । पुनः कीदृक् ? स्तेनश्चौर्येण कल्पितवृत्तिः, पुनः कीदृक् ? मायी- कापट्ययुक्तः, पुनः कीदृक् ? कन्नुहरः कस्यार्थं 'नु' इति वितर्के हरिष्यामीति विचारो यस्य स कनुहरः, पुनः कीदृश: ? शठो-व - वक्राचारः ॥ ५ ॥ पुनः कीदृश: ? स्त्रीविषये गृद्धः, पुनः कीदृश: ? महारम्भपरिग्रहः, महान्तावारम्भपरिग्रहौ यस्य स महारम्भ-परिग्रहो, महारम्भी, पुनर्महापरिग्रही, पुनः कीदृश: ? सुरां-मद्यं १ अत्र सर्वार्थसिद्धिटीकायामेवं- 'अध्वनि मार्गे विलोपकः पथि जनानां मोषकः । ' नैमिचन्द्रीयवृत्तावपि एवमेव ॥ ૧૫
-