________________
॥अथ सप्तममौरभ्रीयाख्यमध्ययनं प्रारभ्यते ॥
अत्र पूर्वाध्ययने साधोनिर्ग्रन्थत्वमुक्तम्, तच्च यो रसेष्वगृद्धो भवेत्तस्यैव स्यात्, रसगृद्धस्य कष्टमुत्पद्यते, तेन रसगृद्धस्य कष्टोत्पत्तिदृष्टान्तसूचकमुरभ्रादि-पञ्चदृष्टान्तमयं सप्तममौरभ्रीयाख्यं कथ्यते, इति षष्ठसप्तमयोः सम्बन्धः। --
जहाएसं समुद्दिस्स, कोइ पोसिज्ज एलयं ।
ओयणं जवसं दिज्जा, पोसिज्जा वि सयंगणे ॥१॥ यथा कोऽपि कश्चिन्निर्दयः पुमानादेशम् आदिश्यते विविधव्यापारेषु प्रेर्यते परिजनो यस्मिन्नागते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकाङ्गणे - स्वकीयगृहाङ्गणे एलकमेडकमूरणकं पोषयेत्, तस्मै एलकायौदनं सम्यग्धान्यं यवसं मुद्गमाषादिकं दद्यात् । ततश्च पोषयेत् । पुनः पोषयेदित्युक्तं तदत्यादरख्यापनार्थम् ।अपिशब्दः सम्भावने सम्भाव्यत एवंविधः कोऽपि गुरुकर्मेत्यर्थः ॥१॥अत्रोदाहरणं यथा -
एकमूरणकं प्राघूर्णकार्थं पोष्यमाणं-लाल्यमानं दृष्ट्वैको वत्सः खिन्नः क्षीरमपिबन् गवा मात्रा पृष्टः- कथं न वत्स ! क्षीरं पिबसि ? स आह-मातरेष ऊरणकः सर्वैर्लोकैः पाल्यते, तीहीश्चार्यते, पुत्र इव विविधैरलङ्कारैरलङ्क्रियते । अहं तु मन्दभाग्यः शुष्कान्यपि तृणानि न प्राप्नोमि । न च निर्मलं पानीयमपि प्राप्नोमि । न च मां कोऽपि लालयति ।माता प्राह - पुत्र ! अस्यैतान्यातुरचिह्नानि, यथा मर्तुकाम आतुरो यद्यन्मार्गयति पथ्यमपथ्यं वा तत्तत्सर्वं दीयते, अथासौ मारयिष्यते तदा त्वं दक्ष्यसि ।अन्यदा तत्र प्राघूर्णकः समायातः । तदर्थं तमूरणकं मार्यमाणं दृष्ट्वा भीतः स वत्सः पुनः स्तन्यपानमकुर्वन्मात्राऽनुशिष्टो-हे पुत्र ! किं त्वं भीतोऽसि ? पूर्वं मयोक्तं न स्मरसि किं ? आतुरचिन्हान्येतानीति, य एवं वीहीश्चारितः प्रकामं लालितः स एव मार्यते । त्वं तु शुष्कान्येव तृणानि चरितवानसीति मा भैषीः । नैव मारयिष्यसे इति मात्रोक्तो वत्सः सुखेनैव स्तन्यपानमकरोत् । एवं यो यथेष्टविविधास्वादलम्पटोऽधर्ममाचरति स नरकायुर्बध्नातीत्यर्थः ॥१॥
तओ से पुढे परिवूढे, जायमेए महोदरे ।
पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥ ततः स एलकः कीदृशो जातः ? ततः स उरभ्रः पुष्ट-उपचितमांसः परिवृढो-युद्धादौ समर्थः, सर्वेष्वन्येषूरभ्रेषु मुख्य इव दृश्यमाणः । पुनः कीदृशः ? जातमेदः पुष्टीभूतचतुर्थधातुः, पुनः कीदृशः ? महोदरो-विशालकुक्षिः, पुनः कीदृशः ? प्रीणितो यथेप्सितभोजनादिना सन्तुष्टीकृतः । एतादृशः सन् स उरभ्रो विपुले - विस्तीर्णे देहे सत्यादेशं प्राघूर्णकं परिकाङ्क्षति-प्रतीच्छतीव ॥२॥