________________
[१११
क्षुल्लकनिर्ग्रन्थित्वाख्यमध्ययनम् ६] दिसञ्चयस्तं न कुर्यात्, यावता पात्रं लिप्यते तावन्मात्रमपि-घृतादिकं न सञ्चयेत्, भिक्षुराहारं कृत्वा पात्रं समादाय-पात्रं गृहीत्वा निरपेक्षः सन्निःस्पृहः सन् परिव्रजेत् साधुमार्गे प्रवर्तेत । क इव ? पक्खी' इव-यथा पक्ष्याहारं कृत्वा पत्रं- 'तनूरुहमात्रं गृहीत्वोड्डीयते, तथा साधुरपि कुक्षिशम्बलो भवेत् ॥ १६ ॥
एसणासमिओ लज्जू, गामे अनियओ चरे।
अप्पमत्तो पमत्तेहिं, पिण्डवायं गवेसए ॥ १७ ॥ एषणासमितो निर्दोषाहारग्राही साधुर्गामे नगरे वाऽनियतो-नित्यवासरहितः सन् चरेत्, संयममागे प्रवर्तेत ? कीदृशः साधुः ? लज्जुर्लज्जालुः, लज्जा संयमस्तेन सहितः, पुनः कीदृशः ? अप्रमत्तः-प्रमादरहितः, पुनः साधुः पमत्तेहिं' इति प्रमत्तेभ्यो गृहस्थेभ्यः पिण्डपातं भिक्षां गवेषयेत्, गृह्णीत, प्राकृतत्वात् पञ्चमीस्थाने तृतीया ॥१७॥
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे। अरहा नायपुत्ते, भयवं वेसालिए वियाहिए ॥ १८ ॥ त्ति बेमि ॥
सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बू ! 'से' इति सोऽर्हन् ज्ञातपुत्रो - महावीरः 'एवं उदाहु'एवमुदाहृतवान्, अहं तवाग्रे इति ब्रवीमि,अर्हन्निन्द्रादिभिः पूज्यो ज्ञातः-प्रसिद्धः सिद्धार्थक्षत्रियस्तस्य पुत्रो ज्ञातपुत्रः, कीदृशो महावीरः ? भगवानष्टमहाप्रातिहार्याधतिशयमाहात्म्ययुक्तः, पुनः कीदृशः ? विशाला - त्रिशला तस्याः पुत्रो वैशालिकः, अथवा विशाला: शिष्यास्तीर्थं यशःप्रभृतयो गुणा यस्येति वैशालिकः, पुनः कीदृशो महावीरः ? 'वियाहिए' इति व्याख्याता विशेषेणाख्याता द्वादशपरिषत्सु समवसरणे धर्मोपदेशं व्याख्याता धर्मोपदेशक इत्यर्थः । पुनः कीदृशो महावीरः ? अनुत्तरज्ञानी - सर्वोत्कृष्टज्ञानधारी, पुनः कीदृशः ? अनुत्तरदर्शी, अनुत्तरं-सर्वोत्कृष्टं पश्यतीत्येवंशीलोऽनुत्तरदर्शी, पुनः कीदृशः? अनुत्तरज्ञान-दर्शनधरः,ज्ञानंच दर्शनं च ज्ञानदर्शने, अनुत्तरेच ते ज्ञानदर्शने च अनुत्तरज्ञानदर्शने, अनुत्तरज्ञान-दर्शने धरतीति अनुत्तरज्ञान-दर्शनधरः, केवलवरज्ञान-दर्शनधारीत्यर्थः । अत्र पूर्वमनुत्तरज्ञान्यनुत्तरदशीति विशेषणद्वयमुक्त्वा पुनरनुत्तरज्ञानदर्शनधरइति विशेषणमुक्तम्, तेन केवलज्ञान-केवलदर्शनयोरेकसमयान्तरेण युगपदुत्पत्तिः सूचिता, अनयोः कथञ्चिद्भेदोऽभेदश्च सूचितः, पुनरुक्तदोषो न ज्ञेयः ॥१८॥
इति क्षुल्लकनिर्ग्रन्थित्वाध्ययनम् ।अत्राध्ययने क्षुल्लकस्य साधोर्निर्ग्रन्थित्वमुक्तमित्यर्थः॥ --." इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां क्षुल्लकनिर्गन्थित्वाध्ययनस्य षष्ठस्यार्थः सम्पूर्णः॥
१ पक्षीनी चांच।