SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११०] [उत्तराध्ययनसूत्रे तेऽज्ञानवादिनो विषयिणोऽनन्तकेऽपारे संसारे दीर्घमध्वानं-मार्गमापन्नाः प्राप्ताः सन्ति, तस्मात्कारणात्सर्वां दिशं भवभ्रमणरूपामष्टादशभावदिशो दृष्ट्वा साधुरप्रमत्तः प्रमादरहितः सन् विचरेत्, अष्टादशभावदिशश्चमा: "'पुढवि १, जल २, जलण ३, वाउ ४, मूला ५, खंध ६, ग्गा ७, पोरबीया य ८, । बि ९, ति १०, चउ ११, पञ्चिन्दियतिरि १२, नारया १३, देवसंघाया १४, ॥१॥ समुच्छिम १५, कम्मा १६, कम्म-गा य १७, मणुया तहंतरद्दीवा १८, ॥ भावदिसा दिस्सइ जं, संसारी निययमेआहि ॥ २ ॥"[विशेषा भा० गा० ३२०७-८] इति संसारे प्रमादिनो जीवा इमास्वष्टादशभावदिशासु पुनः पुनर्भमन्तीत्यर्थः ॥१३ ॥ बहिया उड्डमादाय, नावकंखे कयाइ वि । पुव्वकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ साधुः पूर्वकर्मक्षयार्थमिमं देहं समुद्धरेत्, सम्यक् शुद्धाहारेण धारयेत्, पुनः कदापि परीषहोपसर्गादिभिः पीडितोऽपिन कस्यापि साहाय्यमवकाक्षेन्नाभिलषेत् । अथवा कदापि विषयादिभ्यो न स्पृहयेत् । किं कृत्वा ? 'बहिया' संसारादहिस्तात्संसारादहिभूतमूर्ध्वं लोकाग्रस्थानं मोक्षमादायाभिलष्य ॥१४॥ विगिंच कम्मुणो हेळं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लध्धूण भक्खए ॥१५॥ कालकाझ्यवसरज्ञः साधुः कर्मणां हेतुं - कर्मणां कारणं मिथ्यात्वा-विरतिकषाय-योगादिकं 'विगिंच' विविच्यात्मनः सकाशात्पृथक्कृत्य परित्यजेत्-संयममार्गे सञ्चरेत्, कालं-स्वक्रियानुष्ठानस्यावसरंकाङ्क्षतीत्येवंशीलः कालकाङ्क्षी, पुनः स साधुः पिण्डस्याहारस्य तथा पानस्य-पानीयस्य मात्रां-परिमाणं लब्ध्वा भक्षयेत्, यावत्या. मात्रयात्मसंयमनिर्वाहः स्यात्तावत्परिमाणमाहारंपानीयं च गृहीत्वाऽऽहारंपानीयं च कुर्यादित्यर्थः । कथम्भूतमाहारं ? 'कडं' गृहस्थेनात्मार्थं कृतम्, प्राकृतत्वाद्विभक्तिव्यत्ययः ॥ १५ ॥ सन्निहिं च न कुव्विज्जा, लेवमायाए संजए । पक्खी पत्तं समादाय, निरवेक्खो परिव्वए ॥ १६ ॥ च - पुनः संयतः साधुर्लेपमात्रयापि सन्निधिं न कुर्यात्, लेपस्य मात्रा लेपमात्रा, तया लेपमात्रया सं-सम्यक्प्रकारेण निधीयते-स्थाप्यते दुर्गतावात्मा येन स सन्निधितगुडा "पृथ्वी-जल-ज्वलन-वाता, मूल-स्कन्धान-पर्वबीजाश्च । द्वि-त्रि-चतुःपञ्चेद्रियतिर्यग्-नारका देवसङ्घाताः ॥ १ ॥ सम्मर्छिम-कर्मा-ऽकर्मकाश्च मनुष्यास्तथान्तरद्वीपाः । भावदिशो व्यपदिश्यते यत्संसारी नियतमेताभिः ॥२॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy