________________
क्षुल्लकनिर्ग्रन्थित्वाख्यमध्ययनम् ६ ]
भणंता अकरिंता य, बंधमोक्खपइन्त्रिणो ।
वाया विरियमित्तेणं, समासासेंति अप्पयं ॥ १० ॥
पुनस्त एव ज्ञानवादिनो बन्ध-मोक्षप्रतिज्ञिनो वाचा वीर्यमात्रेण केवलं वाक्शूरत्वेनात्मानं समाश्वासयन्ति, बन्धश्च मोक्षश्च बन्ध-मोक्षौ तयोः प्रतिज्ञातं ज्ञानं येषां ते बन्धमोक्षप्रतिज्ञिनो बन्ध-मोक्षज्ञा इत्यर्थः । यतः
"मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । यत्रैवालिङ्गिता कान्ता, तत्रैवालिङ्गिता सुता” ॥ १ ॥
इत्यादि प्रतिज्ञां कुर्वाणास्ते किं कुर्वतः ? आत्मानमाश्वासयन्ति भणन्तो ज्ञानमभ्यस्यन्तः, च पुनरकुर्वन्तः क्रियामनाचरन्तः प्रत्याख्यान - तपः पौषधव्रतादिकां क्रियां निन्दन्तः, ज्ञानमेव मुक्त्यङ्गतयाङ्गीकुर्वन्त इत्यर्थः ॥ १० ॥
न चित्ता तायए भासा, कओ विज्जाणुसासणं । विसन्ना पावकम्मेहिं, बाला पंडियमाणिणो ॥ ११ ॥
[१०९
जे केइ सरीरे सत्ता, वन्ने रूवे य सव्वसो ।
मणसा कायवक्वेणं, सव्वे ते दुक्खसम्भवा ॥ १२ ॥
-
पण्डितमानिन आत्मानं पण्डितंमन्या ज्ञानाहङ्कारधारिण इति न जानन्ति इत्यध्याहारः, इतीति किं ? चित्रा: प्राकृतसंस्कृताद्याः षड्भाषाः, अथवान्या अपि देशविशेषान्नानारूपा भाषा वा, पापेभ्यो- दुःखेभ्यो न त्रायन्ते न रक्षन्ते तर्हि विद्यानां न्याय-मीमांसादीनामनुशासनमनुशिक्षणं विद्यानुशासनं कुतस्त्रायते ? न त्रायत इत्यर्थः । अथवा विद्यानां विचित्रमन्त्रात्मिकानां रोहिणी - प्रज्ञप्तिका - गौरी - गन्धार्यादिषोडशविद्यादेव्यधिष्ठितानामनुशासनमनुशिक्षणमाराधनं कुतो नरकात् त्रायते ? कीदृशास्ते बालाः ? अतत्त्वज्ञाः पुनः कीदृशास्ते ? पापकर्मभिर्विषण्णा विविधमनेकप्रकारं यथास्यात्तथा सन्ना:- पापपङ्केषु कलिता इत्यर्थः ॥ ११ ॥
आवन्ना दीहमद्धाणं, संसारंमि अनंतए ।
तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्व ॥ १३॥
ये केचन ज्ञानवादिनः शरीरे सक्ताः सन्ति, शरीरे सुखान्वेषिणः सन्ति, तथा पुनर्ये वर्णे शरीरस्य गौरादिके, च पुनस्तथारूपे सुन्दरनयन- नासादिके, चशब्दाच्छब्दे रसे गन्धे स्पर्शे च सर्वथा मनसा कायेन वाक्येन सक्तां संलग्नां सन्ति ते सर्वे दुःखसम्भवा दुःखस्य सम्भवा दुःखसम्भवा - दुःखभाजनं भवन्ति, मृग-पतङ्ग-मीन-मधुप- मातङ्गवदिहलोके यथा मरणदुःखभाजः, परलोकेऽप्यार्तध्यानेन मृता दुःखिनः स्युरित्यर्थः ॥ १२ ॥