________________
१०८]
[उत्तराध्ययनसूत्रे अज्झत्थं सव्वओ सव्वं, दिस्स पाणे पियायए।
न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ साधुः सर्वतः-सर्वप्रकारेण सर्वमध्यात्मं सुख-दुःखादिकं 'दिस्स' इति दृष्ट्वा सर्वप्रकारेण सर्वं सुख-दुःखादिकमात्मनि स्थितं ज्ञात्वा सुख-दुखयोर्वेदकमात्मानं ज्ञात्वा इष्टसंयोगादिहेतुभ्यः समुत्पन्नं सुखं सर्वस्यात्मनः प्रियं स्यात्, इष्टवियोगादिहेतुभ्यः समुत्पन्नं दुःखं सर्वस्यात्मनोऽप्रियं ज्ञात्वेत्यर्थः । च पुनः प्राणिनो-जीवान् प्रियात्मनो दृष्ट्वा, प्रिय आत्मा येषां ते प्रियात्मानस्तान् प्रियात्मान्।
"सव्वे जीवावि इच्छंति, जीविऊन मरिज्जिऊं।"[दशवकालिक ६/११] इति दृष्ट्वा हदि विचार्य प्राणिनो-जीवस्य प्राणान्-इन्द्रियोच्छ्वासनिःश्वासायुर्बलरूपान्न हन्यात्, भयाद्वैराच्चोपरमेत-निवर्तेत । अथवा कथम्भूतः साधुः ? भयाद्वैरादुपरतो निवर्तितः, इति साधुविशेषणं कर्तव्यम् ॥७॥
आयाणं नरयं दिस्स, नायइज्ज तणामवि ।
दोगुंछी अप्पणो पाए, दिन्नं भुंजिज्ज भोयणं ॥८॥ साधुस्तृणमपि 'नायइज्ज' इति नाददीत, अदत्तं न गृहीत, किं कृत्वा ? आदानं नरकं दृष्ट्वा , आदीयत इत्यादानं-धनधान्यादिकं परिग्रहम्, नरकं-नरकहेतुत्वान्नरकं ज्ञात्वेत्यर्थः । पुनः साधुः ‘पाए दिन्नं' पात्रे दत्तं-गृहस्थेन पात्रमध्ये प्रक्षिप्तं भोजनं शुद्धाहारं 'भुंजेज्ज' इति भुञ्जीत, कथम्भूतः सन् ? 'अप्पणो दुगंछी' आत्मनो जुगुप्सी सन्, आहारसमये आत्मनिन्दकः सन्, अहो धिग्ममात्मानमयमात्मा देहो वाहारं विना धर्मकरणेऽसमर्थः, किं करोमि? धर्मनिर्वाहार्थमस्मै भाटकं दीयत इति चिन्तयन्नाहारं कुर्यात्, न तु बल-वीर्य-पुष्ट्याद्यर्थमाहारं विदधीयत इति चिन्तयेत् । अत्रादत्त - परिग्रहाश्रवद्वयनिरोधादन्येषामप्या-श्रवाणां निरोध उक्त एव ॥८॥
इहमेगे उ मन्नंति, अप्पच्चक्खाय पावगं ।
आयरियं विदित्ताणं, सव्वदुक्खा विमुच्चई ॥९॥ इहास्मिन् संसारे एके-केचित्कापिलिकादयो ज्ञानवादिन इति मन्यन्ते, इतीति किं ? पापकं-हिंसादिकमप्रत्याख्याय-पापमनालोच्यापिमनुष्य आचारिकं-स्वकीयस्वकीयमतोद्भवानुष्ठानसमूहं विदित्वा-ज्ञात्वा, सर्वदुःखाद्विमुच्यते, एतावता तत्त्वज्ञानान्मोक्षावाप्तिः, इति वदन्ति, जैनानां तु ज्ञान-क्रियाभ्यां मोक्षः,ज्ञानवादिनां तु ज्ञानमेवमुक्त्यङ्गमिति ॥९॥ १ सर्वे जीवा अपि इच्छन्ति, जीवितुं न मर्तुम् ।