________________
॥ अथ षष्ठं क्षुल्लकनिर्ग्रन्थित्वाख्यमध्ययनं प्रारभ्यते ॥
पूर्वस्मिन्नध्ययनेऽकाम - सकाममरणे उक्ते, तत्र सकाममरणं निर्ग्रन्थस्य भवति, ततो निर्ग्रन्थस्याचारः षष्ठेऽध्ययने कथ्यते, अयं पञ्चमषष्ठाध्ययनयोः सम्बन्धः ।
जावन्तऽविज्जा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतिगे ॥ १ ॥
यावन्तोऽविद्याः पुरुषास्ते सर्वेऽपि मूढाः संसारे बहुशो - वारंवारं लुप्यन्ते - आधिव्याधि-वियोगादिभिः पीड्यन्ते । न विद्यते विद्या- सम्यग्ज्ञानं येषां तेऽविद्या:, अत्र नञ् कुत्सार्थवाचकः, ये कुत्सितज्ञानसहिता मिथ्यात्वोपहतचेतसो वर्तन्ते, ते मूर्खाः संसारे दुःखिनो भवन्ति । कीदृशे संसारे ? अनन्तकेऽपारे, कीदृशास्तेऽविद्या: ? दुःखसम्भवाः, दुःखस्य सम्भवो येषु ते दुःखसम्भवा दुःखभाजनमित्यर्थः । यावन्तोऽविद्या इत्यत्र प्राकृतत्वादकारोऽदृश्यः ॥ १ ॥ अत्राविद्यापुरुषोदाहरणं यथा -
-
कश्चिद् द्रम्मकोऽभाग्यात् क्वापि किञ्चिदप्राप्नुवन् पुराद्वहिरेकस्मिन् देवकुले रात्रावुषितः, तत्रैकं पुरुषं कामकुम्भप्रसादेन यथेष्टभोगान् भुञ्जानं वीक्ष्य प्रकामं सेवितवान्, तुष्टेन तेन तस्य भणितं भो ! तुभ्यं कामकुम्भं ददाम्युत कामकुम्भविधायिकां विद्यां ददामि ? तेन विद्यासाधनपुरश्चरणादिभीरुणा विद्याभिमन्त्रितं घटमेव मे देहीति भणितम्, विद्यापुरुषेण विद्याभिमन्त्रितो घट एव तस्मै दत्तः, सोऽपि तत्प्रसादात्सुखी जातः । अन्या पीतमद्योऽयं पुरुषस्तं कामकुम्भं मस्तके कृत्वा नृत्यन् पातितवान्, भग्नः कामकुम्भस्ततो नासौ किञ्चिदर्थमवाप्नोति, शोचति चैवं यदि मया तदा विद्या गृहीताऽभविष्यत्तदाभिमन्त्रय नवं कामकुम्भमकरिष्यम्, पूर्ववदेव सुखी चाभविष्यम् । एवमविद्या नरा दुःखसम्भवाः क्लिश्यन्ते ॥ १ ॥
समिक्खं पंडिए तम्हा, पासजाईप बहू ।
अप्पणा सच्चमेसिज्जा, मेत्तिं भूएसु कप्पए ॥ २ ॥
तस्मादज्ञानिनां - मिथ्यात्विनां संसारभ्रमणत्वात्पण्डितस्तत्त्वज्ञ आत्मना स्वयमेव -परोपदेशं विनैव सत्यमेषयेत्, सद्द्भ्यो हितं सत्यमर्थात्संयममभिलषेत् । पुनः पण्डितो भूतेषु - पृथिव्यादिषु षट्कायेषु मैत्रीं कल्पयेत् । किं कृत्वा ? बहून् पाशजातिपथान् समीक्ष्य, पाशाः-पारवश्यहेतवः - पुत्रकलत्रादिसम्बन्धास्त एव मोहहेतुतयैकेन्द्रियादिजातीनां पन्थानः पाशजातिपथास्तान् पाशजातिपथान् दृष्ट्वा, यदा हि पुत्रकलत्रादिषु मोहं करोति तदैकेन्द्रियत्वं जीवो बध्नाति ॥ २ ॥