SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणाख्यमध्ययनम् ५] [१०५ भयाभिसूचकं रोमोद्गमं विनयेत्-स्फेटयेत्, मरणभयं न कुर्यात्, देहस्य भेदं काक्षेत्, शरीरत्यागमभिलषेत्, यादृशो हर्षो दीक्षावसरे, यादृशो हर्षः संलेखनावसरे, तादृशो हर्षो मरणसमयेऽपि विधेयो, न भेतव्यमित्यर्थः ॥३१॥ अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरई, तिहमन्नयरं मुणी ॥३२॥त्ति बेमि ॥ अथ काले-मरणे सम्प्राप्ते सति मुनिः समुच्छ्यमभ्यन्तरशरीरं बाह्यशरीरंच, अभ्यन्तरं कार्मणशरीरम्, बाह्यमौदारिकशरीरम्, आघाय-विनाश्य त्रयाणां सकाममरणानां मध्येऽन्यतरेणैकेन सकाममरणेन म्रियते, तानि त्रीणि सकाममरणानीमानि-भक्तपरिज्ञा-भक्तप्रत्याख्यान १ इङ्गिनी २ पादपोपगमनाख्यानि ३। यत्र भक्तस्य त्रिविधस्य चतुर्विधस्य चाहारस्य प्रत्याख्यानं भक्तप्रत्याख्यानम् १, यत्र मण्डलं कृत्वा मध्ये प्रविश्य मण्डलाहिर्न नि:स्त्रियते तदिङ्गिनीमरणम् २, यत्र छिन्नवृक्षशाखावदेकेन पार्श्वेन निपत्यते, पार्श्वस्य परावर्तों न क्रियते तत्पादपोपगमनम् । एतेषां त्रयाणां मध्येऽन्यतरेण मरणेन म्रियते, इति सुधर्मास्वामी जम्बूस्वामिनं प्रति कथयति हे जम्बू ! अहं भगवद्वचसा त्वां ब्रवीमि ॥ ३२ ॥ इत्यकामसकाममरणीयमध्ययनं पञ्चमम् ॥ __ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामकाम-सकाममरणीयाख्यस्य पञ्चमस्यार्थः सम्पूर्णः ।।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy