________________
पञ्चममकाममरणाख्यमध्ययनम् ५]
[१०३ पूर्णिमावस्यादिषु पौषधम्-आहारपौषधादिकं कुर्यात् । एकरात्रिमप्येकदिनमपि न हापयेत्, न हानि कुर्यादित्यर्थः । रात्रिग्रहणं दिवा व्याकुलतायां रात्रावपि पौषधं कुर्यात्, चेदेवं न स्यात्तदा चतुर्दश्यष्टम्युद्दिष्टा, महाकल्याणक-पूर्णिमा-चतुर्मासकत्रयस्य दिवसे पौषधं कुर्यात्, सामायिकाङ्गत्वेनैव सिद्धे भेदेनोपादानमादरख्यापनार्थम् ॥ २३ ॥
एवं सिक्खासमावन्ने, गिहवासेवि सुव्वए ।
मुच्चई छविपव्वाओ, गच्छे जक्खसलोगयं ॥२४॥ एवममुना प्रकारेण शिक्षासमापन्नः श्रद्धाचारसहितो गृहस्थवासेऽपि सुव्रतो द्वादशव्रतधारकः सन् त्वक्पर्वतो मुच्यते, त्वक् -चर्म-पर्व-जानु-कूर्पर-गुल्फादि, ततो भुक्तो भवति, औदारिकशरीरान्मुच्यते, पुनः स श्राद्धो यक्षसलोकतां गच्छेत्, सह लोकेन वर्तत इति सलोकः, यक्षैर्देवैः सलोको यक्षसलोकस्तस्य भावो यक्षसलोकता तां देवजातित्वं प्राप्नोतीत्यर्थः । अत्र पण्डितमरणप्रस्तावेऽप्यवसरप्रसङ्गाद् बालपण्डितमरणमुक्तम् ॥२४॥
अह जे संवुडे भिक्खू, दोण्हं अन्नयरे सिया।
सव्वदुक्खप्पहीणे वा, देवे वावि महड्डिए ॥२५॥ अथानन्तरं यः संवृतः- पञ्चाश्रवनिरोधको भिक्षुः सर्वदुःखप्रहीणे - मोक्षेऽथवा देवे-देवलोके, एतयोर्द्वयोः स्थानयोर्मध्येऽन्यतरस्मिन्नेकस्मिन् स्थाने स्यात्, कीदृशो देवः स्यात् ? महर्द्धिको महती ऋद्धिर्यस्य स महर्द्धिकः ॥ २५ ॥
उत्तराई विमोहाइं, जुइमंताणुपुव्वसो । समाइन्नाइं जक्खाहि, आवासाइं जसंसिणो ॥ २६ ॥ दीहाउया इड्डिमंता, समिद्धा कामरूविणो । अहुणोववण्णासंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥ ताणि ठाणाणि गच्छन्ति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुडा ॥२८ ॥ त्रिभिः कुलकम्
ते भिक्षादा-भिक्षावृत्तयः साधवोऽथवा गृहस्था:-श्राद्धाः संयम पुनस्तपः शिक्षयित्वा - हदि धृत्वा तानि स्थानानि गच्छन्ति-प्राप्नुवन्तीति तृतीयगाथायाः सम्बन्धः । ते के भिक्षादाः? पुनस्ते के च गृहस्थाः ? ये परिनिवृताः सन्ति, परि-समन्तानिर्वृताविधूतकषायमलाः । तानि कानि स्थानानि ? उत्तराणि सर्वेभ्यो देवलोकेभ्य उपरिस्थानि पञ्चानुत्तरविमानानि, पुनः कीदृशानि तानि ? विमोहान्यज्ञानरहितानि, येषु स्थानेषूत्पन्नानां देवानां मिथ्यात्वाभावात् सम्यक्त्वं भवतीत्यतो विमोहानि, पुनः कीदृशानि? द्युतिमन्ति