________________
१०२]
[ उत्तराध्ययनसूत्रे
एकेभ्यो भिक्षुभ्यो-निह्नवभग्नचारित्रादिभ्यः पाखण्डिकुतीर्थिभ्यश्च, अगारस्था अपि-गृहस्था अपि संयमुत्तराः सन्ति, संयमेन - देशविरतिलक्षणेन धर्मेणोत्तराः प्रधानाः सन्ति, सर्षपमेरुपर्वतयोरिवान्तरमस्ति, सर्वेभ्यो द्विविध-त्रिविधप्रत्याख्यानधरेभ्यो ऽगारस्थेभ्यः साधवः षड्व्रत-षट्कायरक्षकाः संयमेन सप्तदशभेदेनोत्तराः प्रधानाः समीचीनाः सन्ति । अत्र दृष्टान्तः - एकः श्रावकः साधुं पृच्छति श्रावकाणां साधूनां च मिथः कियदन्तरं ? साधुनोक्तं मेरुसर्वपोपममन्तरम्, तत आकुलीभूतः स श्रावकः पुनः पृच्छति - कुलिङ्गिनां श्रावकाणां मिथः कियदन्तरं ? साधुनोक्तं तदपि मेरुसर्षपोपममन्तरम्, ततः स श्रावकः स्वस्थ जात इति ॥ २० ॥
चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं ।
याणि विनतायंत, दुस्सीलं 'परियागयं ॥ २१ ॥
एतानि सर्वाणि द्रव्यलिङ्गानि ' परियागयं' प्रव्रज्यां गतं - दीक्षां प्राप्तम्, अर्थात् द्रव्यलिङ्गिनं दुःशीलं न त्रायन्ते संसारात्, दुष्कर्मविपाकाद्वा न रक्षन्ति, एतानि कानि लिङ्गानि तान्याह - चीराणि वल्कलानि वल्कलचीरधारित्वम्, अजिनं चर्मधारित्वम्, 'नगिणिणं' नग्नत्वम्, 'जडी' त्ति जटाधारित्वम्, सङ्घाटीत्वं वस्त्रसङ्घातोत्पन्ना, तया युक्तत्वं कन्थाधारित्वम्,'मुंडिणं'मुण्डत्वम्, एतानि सर्वाणि द्रव्यलिङ्गानि न मोक्षदानि भवन्तीत्यर्थः॥२१॥
पिंडोलएव दुस्सीले, नरगाओ न मुच्चई ।
भिक्खाए वा गिहत्थे वा, सुव्वए कम्मई दिवं ॥ २२ ॥
-
पिण्डोलगोऽपि भिक्षुर्यदि नरकान्न मुच्यते तदा दुःशील:- कषायादियुक्तस्तु नरकान्न मुच्यत एव, पिण्डं - परदत्तग्रासमवलगते - सेवत इति पिण्डोलगः, अत्र निश्चयमाह - भिक्षादो भिक्षुरथवा गृहस्थो वा भवेत् तयोर्भिक्षादगृहस्थयोः साधु-श्रावकयोर्मध्ये यः सुव्रतः सुष्ठु - शोभनानि व्रतानि यस्य स सुव्रतः, स दिवं स्वर्गं क्रमति - व्रजतीत्यर्थः, अत्र द्रम्मककथा यथा राजगृहे कश्चिद् द्रम्मक उद्यानिकानिर्गतजनेभ्यो भिक्षामलभमानो रुष्टः सर्वेषां चूर्णनाय वैभारगिरिशिलां चालयन् शिलान्तर्निपतितः, शिलातले चूर्णितवपुः सप्तमं नरकं गतः । एवं भिक्षुरपि दुर्ध्यानेन दुःशीलत्वान्नरकमेव गच्छतीति परमार्थः ॥ २२ ॥
-
-
अगारिसामाइयंगाई, सड्डी काएण फासए ।
पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥
-
अगारी-गृहस्थः सामायिकाङ्गानि सामायिकस्याङ्गानि सामायिकाङ्गानि निःशङ्कितनिष्काङ्क्षित-निर्विचिकित्सिता - मूढदृष्टिप्रमुखाणि कायेन स्पृशति, कीदृशः सन् ? श्रद्धीश्रद्धावान् सन्, पुनर्गृहस्थः उभयो:- शुक्लकृष्णपक्षयोः पौषधं सेवते । चतुर्दशी
१ परियागतं D. L. ॥