________________
पञ्चममकाममरणाख्यमध्ययनम् ५]
[१०१ तओ से मरणंतंमि, बाले संतस्सई भया ।
अकाममरणं मरइ, धुत्तेव कलिणा जिए ॥१६॥ ततः स मूर्यो मरणान्ते भयात् सन्त्रसति - सन्त्रासं प्राप्नोति, अकाममरणं म्रियते, म्रियमाणः सन् शोकं विदधाति, क इव ? धूर्तो-द्यूतकारी कलिना-द्यूतदोषेन जितः, केनचित्ततोऽधिकेन दुष्टेन जितो गृहीतद्रव्यः सन् शोचते, तथा शोचत इत्यर्थः अनेन सह मया किमर्थं क्रीडा कृता? अहं हारितः ॥ १६ ॥
एयं अकाममरणं, बालाणं तु पवेइयं ।
एत्तो सकाममरणं, पंडियाणं सुणेह मे ॥ १७ ॥ बालानामकाममरणमेतत्प्रवेदितम्, तुशब्दो निश्चयार्थे मूर्खाणामेवाकाममरणमित्यर्थः, तीर्थङ्करैः कथितम्, इतः प्रस्तावादनन्तरं 'मे' मम कथयतः पण्डितानां सकाममरणं यूयं श्रृणुत ॥१७॥
मरणंपि सपुन्नाणं, जहा मे तमणुस्सुयं ।
विप्पसन्नमणाघायं, संजयाणं वुसीमओ ॥ १८ ॥ सपुण्यानां-पुण्यवतां संयतानां यथा 'मे' मया मरणमनुश्रुतमवधारितम्, भो भव्यास्तत्सकाममरणं भवद्भिर्मनसि धार्यम्, कीदृशं सकाममरणं? विप्रसन्नं, विशेषेणकषायादिमलराहित्येन प्रसन्न-निर्मलम्, पुनः कीदृशं ? अनाघातम्, न विद्यते आघातो यत्नवत्त्वेनान्यजीवानां संयमजीवितव्यस्य च नाशो यस्मिस्तदनाघातम्, कीदृशानां संयतानां ? 'वुसीमओ' आर्षत्वाद्वश्यवताम्, वश्य आत्मा येषां ते वश्यवन्तः, तेषां जितात्मनामित्यर्थः ॥१८॥
न इमं सव्वेसु भिक्खुसु, न इमं सव्वेसुऽगारिसु । नाणासीला अगारस्था, विसमसीला य भिक्खुणो ॥ १९ ॥
इदं पण्डितमरणं सर्वेषां भिक्षूणां - साधूनां न भवति, किन्तु केषाञ्चित्साधूनां भवेत्, सर्वेषामगारिणां-गृहस्थानामपीदं पण्डितमरणं न भवति, किन्तु केषाञ्चिदेव भवेत्; यतोऽगारस्था-गृहस्था नानाशीला-नानाचारा भवन्ति, च पुनर्भिक्षवोऽपि-साधवोऽपि विषमशीला विषम-विसदृशं शीलं येषां ते विषमशीलाः, केचित्सनिदानतपःकारकाः, केचिनिदानरहिततपःकारिणः, केचिद्विमलचारित्रिणः, केचिद्बकुशचारित्रिणः, इति कथनेन तीर्थान्तरीयास्तु वेषधारिणो दूरत एवोत्सारिताः ॥ १९ ॥
संति एगेहि भिक्खुहि, गारत्था संयमुत्तरा । गारत्थेहिं य सव्वेहि, साहवो संजमुत्तरा ॥ २० ॥