SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १००] [उत्तराध्ययनसूत्रे तओ पद्रो आयंकेण, गिलाणो परितप्पड़ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥ ११ ॥ ------- ततोऽष्टकर्ममलसञ्चयादनन्तरमातङ्केन-रोगेण स्पृष्टः सन् ग्लान:-ग्लानि प्राप्तः परितप्यते-परिखिद्यते परलोकात्प्रभीतः, कथंभूतः सः ? आत्मनः कर्मानुप्रेक्षी, यदा रोगादिग्रस्तो भवति तदा स्वयं जानाति मम कर्मणां विपाको जातः,मया पुरा यान्यशुभानि कर्माणि कृतानि तस्मादहं परलोकेऽपि दुःखी भविष्यामि, इति स्वकृतकर्मापेक्षी - स्वकृतकर्मविचारक इत्यर्थः ॥११॥ सुया मे नरए ठाणा, असीलाणं च जा गई । बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥ १२ ॥ 'मे' मया नरके स्थानानि श्रुतानि, या गतिर्नरकादिः, अशीलानां-कुशीलानां गतिविद्यते, यत्र-यस्यां गतौ क्रूरकर्मणां बालानां-मूर्खाणामात्महितविध्वंसकानां प्रगाढा वेदनास्ति ॥१२॥ तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । अहाकम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ तत्र नरकेषु औपपातिकं स्थानं वर्तते, उपपाते भवमौपपातिकम्, तत्रौपपातिके स्थानेऽन्तर्मुहूर्तादनन्तरं छेदन-भेदन-ताडन-तर्जनादिकम् स्यात्, यथा तन्नारकादिस्थानं 'मे' मयानुश्रुतं वर्तते, अवधारितमिति चिन्तयन् पश्चादायुःक्षये यथा कर्मभिर्गच्छन् स परितप्यति ॥१३॥ जहा सागडिओ जाणं, सम्मं हिच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयइ ॥१४॥ यथा शाकटिकः समं-समीचीनं महापर्थ-राजमार्ग हित्वा-त्यक्त्वा विषमं मार्गमुत्तीर्णः सन् यानं-शकटं अक्खे' धुरि भग्ने सति शोचति-शकटं चिन्तयति-शकटभङ्गस्य शोकं करोति, यतो धिग्मामहं जानन्नपि शकटभङ्गकष्टमवाप्तवान् ॥ १४ ॥ एवं धम्मं विउकम्म, अहम्में पडिवज्जिया । बाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोयइ ॥ १५ ॥ एवममुना प्रकारेण धर्म व्युत्क्रम्य-विशेषेणोल्लथ्याधर्मं प्रतिपद्य बालो-मूखो मृत्युमुखं -मरणमुखं प्राप्तः सन् शोचते-शोकं कुरुते, क इव ? अक्षे भग्ने शाकटिक इव ॥१५॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy