________________
अध्ययन १३
७२ กะดะภ•• Poorneonaunarane
तमेगयं तुच्छसरीरगं से, चिईगयं दहिय उ पावगेणं । भज्जा य पुत्तोवि य णायओ य, दायारमण्णं अणुसंकमन्ति ॥२५॥ उवणिज्जइ जीवियमप्पमायं, वणं जरा हरइ णरस्स रायं! । पंचालराया! वयणं सुणाहि, मा कासि कम्माणि महालयाई ॥२६॥ अहं पि जाणामि जहेह साहू !, जं मे तुमं साहसि वक्कमेयं । भोगा इमे सङ्गकरा हवन्ति, जे दुज्जया अज्जो! अम्हारिसेहिं ॥२७॥ हत्थिणपुरम्मि चित्ता!, दठूगं णरवई महिइिढयं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकन्तस्स, इमं एयारिसं फलं । जाणमाणो वि जं धम्मं, कामभोगेसु... मुच्छिओ ॥२९॥ णागो जहा पङ्कजलावसण्णो, दटुं थलं णाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुव्वयामो ॥३०॥
तदेकं तुच्छशरीरकं तस्य चितिगतं दग्धा तु पावकेन । भार्या च पुत्रोऽपि च ज्ञातयश्व दातारमन्यमनुसङ्कामन्ति ॥२५॥ उपनीयते जीवितमप्रमादं वर्ण जरा हरति नरस्य राजन् ! । पञ्चालराज! वचनं श्रुणु मा कापीः कडाणि महालयानि ॥२६।। अहमपि जानामि यथेह साधो ! यन्मे त्वं साधयसि वाक्यमेतत् । भोगा इमे संगकरा भवन्ति ये दुर्जया आर्य ! अस्मादृशैः ॥२७॥ हस्तिनागपुरे चित्र ! दृष्ट्वा नरपतिम्महर्द्धिकम् । कामभोगेषु गृद्धेन निदानमशुभं! कृतम् ॥२८॥ तस्य मेऽप्रतिक्रान्तस्येदमेतादृशं फलम् । जाननपि यद्धम कामभोगेषु मूर्छितः ॥२९॥ नागा यथा पङ्कजलावसन्नो दृष्ट्वा स्थलं नामिसमेति तीरम् । एवं वयं कामगुणेषु गृद्धा न मिक्षार्मार्गमनुव्रजामः ॥३०॥