________________
उत्सराध्ययन सूत्र.
rananananananewrananeounenerana संथारं फलगं पीढं, निसेज्जं पायकंबलं । अप्पमज्जियआरुहति, पावसमणे ति वुच्चई ॥७॥ दवदवस्स चरती, पमत्ते य अभिक्खणं । उल्लङ्घणे य चण्डे य, पावसमणि त्ति वुच्चई ॥८॥ पडिलेहेति पमत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्ते, पावसमणि त्ति वुच्चई ॥९॥ पडिलेहेइ पमत्ते, जं [से] किंचि हु निसामिय । गुरुपरिभावए णिच्चं, पावसमणि त्ति वुच्चई ॥१०॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ॥११॥ विवादं च उदीरेइ, अधम्मे अत्तपन्नहा । बुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चई ॥१२॥
संस्तारं फलकं पीठं, निषद्यां पादकम्बलम् । अप्रमृज्यारोहति, पापश्रमण इत्युच्यते ॥७॥ द्रुतं द्रुतं चरति, प्रमत्तश्चामिक्ष्णम् । उल्लङ्घनश्च चण्डश्च, पापश्रमण इत्युच्यते ॥८॥ प्रतिलेखयति प्रमत्तोऽपोज्ज्ञति पादकम्बलम् । प्रतिलेखनाऽनायुक्तः, पापश्रमण इत्युच्यते ॥९॥ प्रतिलेखयति प्रमत्तो, यत् किञ्चिद्ध निशम्य । गुरुपरिभावको नित्यं, पापश्रमण इत्युच्यते ॥१०॥ बहुमायी प्रमुखरः, स्तब्धो लुब्धोऽनिग्रह । असंविभाग्यप्रीतिमान् , पापश्रमण इत्युच्यते ॥११॥ विवादं चोदीरयत्यधर्म आत्मपश्नहाः (?)। व्युद्ग्रहे कलहे रक्तः, पापश्रमण इत्युच्यते ॥१२॥
१३