________________
८८
गच्छाचारपइण्णयं ।।३।।' सङ्ग्रहाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते २, विशेषेण निश्चयो विनिश्चयः आबालगोपालाङ्गनाद्यवबोधः, न कतिपयचिद्विषयस्तदर्थं व्रजति व्यवहारनयः ३ ।।३ ।। पच्चुप्पन्नग्गाही, उज्जुसुओ णयविही मुणेयव्यो ४ । इच्छइ विसेसियतरं, पच्चुप्पन्नं णओ सद्दो ५ ।।४।।' साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते वर्तमानकालभावीत्यर्थस्तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयः ४, शब्दनयः प्रत्युत्पन्नं वर्त्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति ५ ।।४।। 'वत्थूओ संकमणं, होइ अवत्थू णए समभिरूढे ६ । वंजणमत्थतदुभए, एवंभूओ विसेसेति ७ ।।५।। वस्तुन इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं भवत्यवस्त्वसदित्यर्थः ६, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देशः प्राकृतत्वात् व्यञ्जनं शब्दोऽर्थस्तु तद्गोचरस्तच्च तदुभयं-शब्दार्थलक्षणं विशेषयति नैश्चित्येन स्थापयति एवंभूतनयः ७ ।।५।। 'सव्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओसाहू ||६||' स० सर्वनयसम्मत्तं । च० चारित्रं क्रियागुणोऽत्र ज्ञानमिति ||६|| इत्यावश्यकनिर्युक्तौ-तथा 'इत्थ पत्थगदितो जहा-से जहा नामए केइ पुरिसे परसुं गहाय अडविहुत्तो गच्छेज्जा, तं च केइ पासित्ता वएज्जा कहिं भवं गच्छइ ? अविसुद्धो णेगमो भणइ, पत्थगस्स गच्छामि । तं च केइ छिज्जमाणं पासित्ता वएज्जा कि भवं छिंदसि ? विसुद्धतरो णेगमो भणइ, पत्थगं छिंदामि । तं च केइ तच्छिज्जमाणं पासित्ता वएज्जा किं भवं तच्छसि ? विसुद्धतराओ णेगमो भणइ, पत्थगं पत्छेमि । तं च उक्किरमाणं पासित्ता वएज्जा किं भवं उक्किरसि ? विसुद्धतराओ णेगमो भणइ पत्थगं उक्किरामि । तं च केइ लिहमाणं पासित्ता वएज्जा किं भवं लिहसि ? विसुद्धतराओ णेगमो भणइ पत्थगं लिहामि, एवं विसुद्धत्तरनेगमस्स नामा उडियपत्थओ ७' एवमनेन प्रकारेण तावन्नेयम्, यावद्विशुद्धतरनैगमस्य 'नामाउडिय' त्ति आकुट्टितनामा प्रस्थको अयमित्येवं